अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 339, कुल 2600 में से
संदर्भ में पढ़ें२५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० ४ सू० १० भाष्यप्रकाशः। 'सर्गकाले तु संप्राप्ते ज्ञात्वा तं कालरूपकम् । अन्तर्लीनविकारं च तत् स्रष्टुमुपचक्रमे । तस्मादव्यक्तमुत्पन्नं ततश्चापि महानभूत्' ॥ इति स्मृतिं च दर्शयित्वाह । नहीदमीक्षणं प्रधानादीनामचेतनानां संभवति । ईक्षण- ध्यानचिन्तनादिशब्देषु चैतन्यस्य विशेष्यत्वात् । ईक्षणादिसम्बन्धेनोपाधिवृत्तिवाचकत्वेऽपि प्रकृति- स्नातक्यवादिभिरपि प्रधाने तत्पूर्विकाया वृत्तेरनङ्गीकाराच्च । नापि जीवानां, महदादिसृष्टेः पूर्वं करणाभावेन तेषां चैतन्यफलोपधानाभावात् । नचेयमीक्षणपूर्विका सृष्टिर्महत्सत्त्वसृष्टेः पश्चादिति वक्तुं शक्यम्, तथा सतीक्षणात् पूर्वमपि द्वैतापत्त्या, 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इती-