अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 344, कुल 2600 में से
संदर्भ में पढ़ेंनिरुपाधिकपरमेश्वरप्रतिनिधित्वेनैव ब्रह्मोपनिषन्नृसिंहतापनीयमैत्रायणीयाथर्वशिखासु सिद्धत्वात् । इदं यथा तथा प्रहस्ताख्ये वादे निपुणतरमुपपादितमिति नेह प्रपञ्च्यते । नच निरुपाधिकस्य निराकारत्वं शङ्क्यम् । 'आनन्दरूपममृतं यद्विभाति' इति मुण्डके, 'अकारं ब्रह्माणं नाभौ उकारं विष्णुं हृदये मकारं रुद्रं भ्रूमध्ये ॐकारं सर्वेश्वरं द्वादशान्ते आनन्दामृतरूपं प्रणवं षोडशान्ते' इति तापनीये, 'आनन्दमात्रकरपादमुखोदरादिः' इति पञ्चरात्रस्मृतौ, 'अथवा परमात्मानं परमानन्द-
रश्मिः । धिभेदे उपहितभेदसौहित्यात् , गुणमूर्तिम्यः परं मायोपाधिकं जगत्कारणं ब्रह्मेति सिद्धम् । तच्चोमास- हायं परमेश्वरं प्रभुम् , 'ऋतं सत्यं परं ब्रह्म'इति कैवल्योपनिषच्छ्रुतेरतद्वपुरित्यप्पय्यदीक्षितास्तन्न वदन्ति तादृशेश्वरसेवेत्यर्थः । प्रतिनिधित्वेनेति अत्रैवं ज्ञेयम् । यन्मूर्तित्रयातीतं तुरीयं तत्त्वं परं ब्रह्मेति प्रत्यपादि तन्मन्दम् । ब्रह्मोपनिषद्येव पूर्वोक्तानन्तरं पठ्यते तेषां मध्ये यत्परं ब्रह्म विभाति स्वयमम- नस्कमश्रोत्रमपाणिपादं ज्योतिर्वर्जितं नेत्यक्षरस्वरूपं निरूप्य तस्य ब्रह्मलोकत्वप्रसिद्धयै 'तत्र लोका न लोका देवा न देवा वेदा न वेदा यज्ञा न यज्ञा माता न माता पिता न पिता स्नुषा न स्नुषा चाण्डालो न चाण्डालः पौल्कसो न पौल्कसः श्रमणो न श्रमणः पशवो न पशवस्तापसो न तापसः इत्येकमेव परं ब्रह्म विभाति' इत्यनेन तत्र लोकादीनां ब्रह्मत्वमुच्यते न तु लोकादयो निषिध्यन्ते । एकेनैव लोकादिपदेन चारितार्थ्यात् । ततो हृदयाकाशे तद्विज्ञानमाकाशं तत्सुषिरमाकाशमित्यनेन तस्य भक्तहृदयाकाशत्वलोकादीनां ब्रह्मत्वोक्तेर्निरूप्य प्रायपाठानुरोधप्राप्तप्रथमार्यससम्या ततस्तादृश- हृदि वेद्यं पूर्णं ब्रह्म ज्ञापयितुं तद्धेयं हृदयाकाशे 'यस्मिन्निदं सं च विचरति' 'यस्मिन्निदं सर्वमोतप्रोतमिति तल्लक्षणमुक्तम् । तथा च ब्रह्म प्रतिनिधीयतेस्मिन् इति प्रतिनिधिरक्षरं तत्त्वेनेत्यर्थः । नृसिंहतापनीयेत्यादि यदप्यप्पय्यदीक्षितेन 'अकारं ब्रह्माणं नाभौ उकारं विष्णुं हृदये मकारं रुद्रं भ्रूमध्ये' इति नाभिहृदयभ्रूमध्येष्वकारादिमात्रात्रयवाच्यानां ब्रह्मादीनामुपासाविधानानन्तरं ॐकारं सर्वेश्वरं द्वादशान्त इति द्वादशान्तोपासं तेभ्यः परं तत्त्वान्तरं तापनीये दर्शितमित्युक्तम् । तत्रापि तदनन्तरं सप्तात्मानं चतुरात्मानं चतुःसप्तात्मानं चतुरात्मानमानन्दामृतरूपं प्रणवषोडशान्तर इति मर्कैसाहित्यलिङ्गेन प्रतिनिधेरेवोक्तेर्युक्तत्वात् । यदपि तेन मैत्रेयोपनिषदि 'तमो वा इदमेकमास' इत्यारभ्य 'तत्परेणेरितं विषमत्वं प्रयात्येतद्वै रजसो रूपम्' इत्यादिना तपोधिष्ठातुः परस्य संकल्पेनावि- षाम्यस्य तमसो गुणविभागं निरूप्य तस्य प्रागुक्ता अभ्यास्तनवो ब्रह्मा रुद्रो विष्णुरिति 'अथ यो ह खलु वा वास्य राजसोंशो योयं ब्रह्माथ यो ह खलु वा वास्य तामसोंशोसौ योयं रुद्रोथ यो ह खलु वा वास्य सात्त्विकोंशोसौ योयं विष्णुः' इति तेभ्यः परं तत्त्वान्तरं दर्शितमित्युक्तम् । तत्रापि ततः पूर्वं ब्रह्मणो वा एता अग्यास्तनवः परस्यामृतस्याशरीरस्येत्युक्तत्वात् तस्यैव तमोभवनादिरुच्यते इति प्रति- निधिरेव तत्त्वन्तरम् । यत्त्वथर्वशिखायां शिव उच्यत इति तदप्योंकारप्रणवनाम्नो निर्वचनाद् ब्रह्म- विष्णुरुद्रेन्द्राः संप्रसूयन्ते इति वचनात् प्रतिनिधित्वेन सिद्धम् । नात्र प्रसवविरोधः संपद्याविर्भावात् । तदुक्तं मैत्रायणीये 'ब्रह्मणो वा एता अग्यास्तनवः परस्यामृतस्याशरीरस्य तस्यैव लोके प्रतिमोदन्ति' इति । एतदेवाहुः निपुणतरमुपपादितमिति । यत्तत्तदाध्याहारे गौरवं मत्वाहुः किंचेति । अग्रिमाधिकरणे
१. धात्रिला नाया वा। २. ॐकारो भक्तः, साहित्यं प्रतिपाद्यप्रतिपादकभावसंवन्धेन । ११ ब्र० सू० २० 255