अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 363, कुल 2600 में से
संदर्भ में पढ़ेंAn exact line-by-line transcription of the Sanskrit text in Devanagari:
ऽश्वतीति निर्णीयते । तदैव गुहायां परमव्योमाविर्भावः । परो मीयते हृद्यतेऽ नेनेति तथा । ज्ञानमार्गीयजीवज्ञेयप्रकारकाद्वैशिष्ट्येनापि तथा । परमव्योम्नोऽप्य- लौकिकत्वज्ञापनायालौकिकः प्रयोगः कृतः । भाष्यप्रकाशः । ज्ञानप्रधानतया ब्रह्मज्ञानं, वरणे तु भक्तिमार्गरीत्याऽऽनन्दप्रधानतया ब्रह्मज्ञानं, येन परप्राप्तिरिति वेद्यस्य द्विधाविर्भाव एव द्विधा व्याख्याने बीजमित्यर्थः । अस्या ऋच एवं निर्णायकत्वे गमकमाहुः तदैवेत्यादि । कृत इत्यन्तम् । तथाच श्रुत्यन्तरे वेद्यनिरूपणे हार्दाकाशविशेषण- रश्मिः । ज्ञेयेत्यर्थः पूर्वदूषणान्नापि सर्वं खल्विदं ब्रह्मेति श्रुत्युक्तेनेत्यर्थः भक्तिकारणत्वात् । किं तु यथा यथा परिमृ- ज्यत इति श्लोकोक्तेनेत्यर्थः । न च तत्र न ज्ञाननिरूपणं किं