भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 392, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 392

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३०३ नन्वानन्दमयस्य न ब्रह्मता वक्तुं शक्या । मयटो लोके विकाराधिकार- विहितत्वादित्याशङ्क्य स्वयमेव परिहरति । विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १२ ॥ अनेनैव पूर्वसूत्रार्थः सिद्धो भविष्यति । विकारवाची शब्दो मयट्प्रत्ययो यस्मिंस्तद्विकारशब्दं तस्मात्तच्छब्दवाच्यं ब्रह्म न भवति । ब्रह्मणोऽविकारित्वा- दिति चेत् । नात्र विकारे मयट्, किं तु प्राचुर्यात् । प्राचुर्यमतति प्राप्नोतीति प्राचुर्यात् । तथाच पाणिनिः । 'तत्प्रकृतवचने मयट्' । प्राचुर्येण प्रस्तुतं वचनं भाष्यप्रकाशः । अतः परमग्रिमसूत्रमवतारयन्ति नन्वित्यादि । मयड्वैतयोर्भाषायामित्यनेन लोके मयटो विकाराधिकारे विहितत्वाद्वैदिकनिर्णयस्यापि वादिबोधनाय लोकन्यायेनैव कर्तव्यत्वादित्या- शङ्क्य परिहरतीत्यर्थः । सूत्रं पठित्वा व्याकुर्वते । विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १२ ॥ अनेनेत्यादि । विकारार्थनिराक- रणेनैव पूर्वसूत्रगत आनन्दमयशब्दो यौगिक इति बोधनान्निरुपाध्यानन्दरूपः परमात्मेति- सिद्धो भविष्यतीत्यर्थः । विकारशब्दमिति पदमिति शेषः । अनेन सूत्रांशेन माया- वादिवद् भ्रान्ताः प्रागपि ऋषयः सन्तीति, तथा प्राचुर्यादित्यनेन व्याकरणान्तरे प्राचुर्येऽपि मयडस्तीत्यपि बोधितम् । तथापीदानीं पाणिनीयस्यैवादृतत्वात् प्रसिद्धत्वाच्च प्राचुर्यार्थे तत्संमतिमाहुः तथा चेत्यादि । ननु पाणिनीये सूत्रे तत्प्रकृतवचने मयडुक्तो, न प्राचुर्ये इति कथं तस्य संमतित्वेनोपन्यास इत्याकाङ्क्षायां व्याकुर्वन्ति प्राचुर्येणेत्यादि । सूत्रं तु काशिकायामेवं व्याख्यातम् । तदिति प्रथमा समर्थविभक्तिः । प्राचुर्येण प्रस्तुतं प्रकृतम् । तथाच, प्रथमान्तात् समर्थात् प्रकृतोपाधिकेऽर्थे वर्तमानात् स्वार्थे मयड् भवतीति । उदा- हरणं तु प्रकृतमन्नमन्नमयमिति । अपरे तु प्रकृतमुच्यतेऽस्मिन्निति प्रकृतवचनम् । उदा- हरणं तु प्रकृतमन्नमुच्यतेऽस्मिन्नित्यन्नमयो यज्ञ इति । उभयथा च सूत्रप्रणयनाद् द्वय- मपि प्रमाणमिति । अयमेवार्थः प्रसादेऽनूदितः । सिद्धान्तकौमुद्यां तु तथानूद्य प्राचुर्येण प्रस्तुतं प्रकृतं तस्य वचनं प्रतिपादनमिति व्याख्यानेन सूत्रे षष्ठीतत्पुरुषो बोधितः । मनोरमादिषु तट्टीकासु तु यद्यपि प्रकृतशब्दः प्रस्तुतमात्रे रूढस्तथापि वचनग्रहणसाम- र्थ्याद् यादृशस्य प्रकृतस्य लोके प्रत्यायनमभिप्रेतं तत्रायं मयट् स्यादिति विशेषो लभ्यत रश्मिः । विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १२ ॥ सन्नीतीति बोधितमित्यनेनान्वयः । एवं प्रकारान्तरेण सूत्रव्याख्याने बीजं वक्तुमन्येषु व्याख्यानेष्वस्वरसं प्रदर्शयन्तोनुवदन्ति सूत्रं त्वित्यादि । उभयथेत्यादि ल्युटो भावार्थत्वेधिकरणार्थत्वे च सूत्रप्रणयनं संभाव्येत्यर्थः । तथानूद्येति भावेधिकरणे च ल्युटं तथोदाहरणं चानूद्येत्यर्थः । अत्र क्त्वाप्रत्ययः पूर्वकाल इत्यस्याविवक्षायां कौमुद्यां व्याख्यानोत्तरकाले तदनुवादात् मनोरमाग्रन्थरत्नौ योजयित्वाहुः यद्यपीति । प्रत्यायनमभिप्रेतं तत्रेत्यादि मयटामिप्रेतम् । प्रकृतमुच्यतेऽस्मिन्निति ल्युडधिकरण ३९ ब्र० सू० २* 303