भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 395, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 395

३०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० १२ छन्दसि द्व्यच्यतिरिक्तस्थले मयटो विकारे विधानाभावाद् व्याकरण- मप्यर्थनिर्णायकम् । विज्ञानमयानन्दमयशब्दौ पश्यन्नपि पाणिनिः 'मयड् वैत- योर्भाषायाम्', 'ऋष्वोश्छन्दसि' इति कथमवोचत् । भाष्यप्रकाशः। ततो वैकल्पिको, विज्ञानशब्दाच्च नित्यो विकारे मयडदण्डवारितः । अन्नादिपदेभ्यश्च स्वारसिक एवेति प्रायपाठानुग्रहाद् विकारार्थ एव युक्त इति तं विहाय प्राचुर्ये तदङ्गी- कारो न युक्त इत्यत आहुः छन्दसीत्यादि । द्व्यच्यतिरिक्तस्थल इति बह्वच्स्थले । तथाच यदि सूत्रकारः पाणिनिस्तथामिप्रेयात् तदा छन्दसि बह्वज्व्युदासाय ऋच एवेति न नियमयेत् । अतो नित्यो वैकल्पिको वा मयट् छन्दसि बह्वचो विकारे न भवतीत्येवेति पाणिनीयविचारेणापि प्राचुर्यार्थग्रहणं युक्त