अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 407, कुल 2600 में से
संदर्भ में पढ़ेंThe following is a line-by-line transcription of the Sanskrit text from the image:
११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० १४ आनन्दमयः फलम् । तस्य स्वरूपस्यैकत्वाद् धर्मभेदेन शिरःपाण्यादि निरूप्यते । तस्य मुख्यतया प्रीतिविषयत्वं धर्मस्तच्छिरः । मोदप्रमोदावपरिनिष्ठितपरि- निष्ठितानन्दातिशयौ । आनन्दस्तु स्वरूपम् । साधनरूपत्वाद् ब्रह्म पुच्छमिति । श्लोकौ तु सचिद्दंशबोधकौ केवलानन्दत्वपरिहाराय । भाष्यप्रकाशः । प्राप्तयोग्यदेहस्य । एतादृशस्य ज्ञानप्राप्या मुख्यं फलं भवतीति विवेक्तुमाहुः ततोऽपी- त्यादि । साधनरूपत्वादिति ज्ञेयत्वेन साधनशेषतया तथात्वात् । एवं, लोके हीत्यादिना वर्णयतीत्यन्तेनोक्तमर्थं विभज्य पुरुषविधत्वं पक्षिरूपत्वं च समर्थितम् । तेन च मन्त्रे द्वितीयान्तकामपदेनोक्ता एत एव धर्माः । आनन्दमयस्तु विपश्चिद् ब्रह्म । धर्मधर्मिणोः