अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 409, कुल 2600 में से
संदर्भ में पढ़ें१२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० १४ भाष्यप्रकाशः। ये तु प्रसिद्धमन्नमयस्य पुरुषविधत्वं स्वीकृत्य तस्य पुरुषविधत्वमनु प्राणमयाद्यानन्दमया- न्तानां पुरुषविधत्वं मूषानिषिक्तप्रतिमान्यायेनाहुस्तैः स्वोक्तदृष्टान्तप्रकार एव न बुध्यते। मूषानिषिक्तप्रतिमायास्तदन्तराकारानुविधायित्वात् । तस्य च मधूत्थनिनिर्मितप्रतिसया समर्प- णादत्रापि तेन न्यायेन बाह्याकारानुरोधस्याशक्यवचनत्वात् । तेनैष पूर्ण इत्यत्र तच्छब्देन प्रकृतम्, एतच्छब्देन पूर्वोक्तं च परामृश्य मध्ये, स वा एष इति तदेतच्छब्दाभ्यां च प्रकृतं परामृश्य तस्य पुरुषविधतामित्यत्र पूर्वपरामर्शनम् । ततस्तस्य प्राण एव शिर इत्याद्यवयवकल्पनावाक्ये पुनः प्रकृतपरामर्श इत्येवं व्याख्याने प्रक्रान्तत्यागप्रसङ्गाच्च । तस्मान्नैते कोशाः, किंतु पञ्चापि फलरूपा व्यापका भिन्ना एव । एतल्लोकत्यागोक्ति- पूर्वकं तत्तत्प्राप्तिश्रावणात् । तथा श्रुत्यन्तरे 'अन्नात् प्राणा भवन्ति भूतानां प्राणैर्मनो मनसश्च विज्ञानं विज्ञानादानन्दो ब्रह्मयोनिः स वा एष पुरुषः पञ्चधा पञ्चात्मा येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षं च द्यौश्च दिशश्चावान्तरदिशश्च स वै सर्वमिदं जगत् स स भूत ९ स भव्यम्' इत्यादिना अनादिपञ्चविधस्योक्तरीत्या पञ्चात्मकस्य पुरुषस्य सर्व- व्याप्तिसर्वात्मकत्वबोधनपूर्वकं, 'ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाति विद्वान्' इत्यनेन तद्विदो मुक्तिश्रावणाच्च । कोशास्तु 'अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयमात्मा मे शुद्ध्यन्ताम्' इति श्रुत्यन्तरे शोध्यत्वलिङ्गाः प्रतिशरीरं भिन्ना एव । म इति स्वस्वजी- वीयत्वरूपभेदलिङ्गात् । अतस्तत्त्वभ्रमेणात्र तदङ्गीकरणमपि प्रकृतविरुद्धमेवेति । ननु शोध्य- त्वलिङ्गिकायां श्रुतौ सिद्धवन्निर्देशादत्र चाकारसमर्पणलिङ्गात् कोशत्वं चतुर्णां सिध्यति । मतान्तरे तु तत् सृष्ट्वा तदेवानुप्राविशदित्यनुप्रवेशस्याग्रे श्रावणादनुप्रवेशस्य च श्रुत्यन्तरे, अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति जीवकरणकत्वबोधनादत्र शारीरपदाच्च पञ्चानां कोशत्वम् । द्वितीयवर्णकरीत्या विचारे त्वग्रे अस्माल्लोकात् प्रेत्येत्यादिना इत उत्क्रमणपूर्वक मन्नमयाद्युपसंक्रमणश्रावणादेतेषामेव प्राप्यतया फलरूपत्वं सिद्धयति । तत्र सिद्धान्ते चतुर्णां विभूतित्वं, पञ्चमस्य परपुरुषरूपत्वात् परमफलत्वम् । पूर्वपक्षे तु पञ्चा- नामपि विभूतिरूपत्वमिति विशेषः । तथापि श्रुतिसमर्थनं तु सर्वत्र तुल्यमतः कुत उत्क्रमणं कस्य प्राप्तिरित्येतत् सर्व- मतेऽपि विचारणीयमेवेति चेत् । अत्रेवं प्रतिभाति । तथाहि । ब्रह्मविदाप्नोति परमिति रश्मिः। मूषान्तराकारानुविधायित्वादित्यर्थः । मधूत्थेत्यादि मूषान्तर्गत्येत्यर्थः । तेनैवेत्यादि तेन प्राणमयेनेषोन्नमयः पूर्ण इत्यर्थः । मधूत्थत्वेन मूषा पूर्णा यथा। प्रकृतमिति प्राणमयम् । पूर्वोक्तमिति अन्नमयम् । पूर्वपरेत्यादि अन्नमयेत्यर्थः । प्रकृतपरेति प्राणमयपरामर्शः । प्रक्रान्तेत्यादि अन्नमयः प्रक्रान्तस्तत्यागप्रसङ्गादित्यर्थः । हृदेति सर्वव्याप्तीत्यादिविषयकबोधनसौकर्यात् मनो बुद्धिः हृन्मनः अजिकृतिः । यद्वा हृदेद्देशात् । नन्वन्नमेणेति कोशत्वभ्रमेण । अत्र विभूतिष्वन्नमयादिषु । तदङ्गीकरणं कोशत्वाङ्गीकरणमपि प्रकृते नैतल्लोकत्यागेन विरुद्धम् । मतान्तर इति उक्तमतान्तरमते । पूर्वपक्ष इति द्वितीयपूर्वपक्षे शब्दो योगरूढस्तथायं सिद्धान्तस पूर्वस्मिन् पक्ष इत्यर्थः । 320