भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 433, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 433

न्तरमपि प्रवर्तते । अतः सर्वरसादयो ब्रह्मनिष्ठा एव धर्माः । स्थूलत्वादयस्तु ये ब्रह्मणि निषिध्यन्ते, अस्थूलादिवाक्येषु ते कार्यधर्माः । अणोरणीयानित्यादिषु कारणधर्मा एव । अत एकोऽप्यसाधारणो धर्मो विद्यमानः शिष्टान् संदिग्धानपि ब्रह्मधर्मानैव गमयति । इममेव श्रुत्यभिप्रायमङ्गीकृत्य सर्वत्र ब्रह्मवाक्यनिर्णयमाह भाष्यप्रकाशः । त्यरूपं, साध्यायो देवपवित्रमिति य एवंविदि पापं कामयत इति तत्र तत्र लिङ्गात् । अत्र तु सर्वकर्माङ्गनराहित्यरूपम् । 'अनन्वितं ते भगवन् विचेष्टितं यदात्मना चरसि च कर्म नाज्यसे' इति श्रीभागवतवाक्यात् । एवं चतुर्मुखादिसार्वत्म्यमपि साङ्कुशम् । 'अविज्ञाय परं मत्तः एतावत्त्वं यतो हि मे' इति द्वितीयस्कन्धे नारदं प्रति ब्रह्मवाक्यात् । अत उदित्य- दीनामेवं कारणभूतब्रह्मासाधारणधर्मत्वे सिद्धे तत्सहपठितानां दृश्यत्वहिरण्मयश्मश्रुत्वादीनामपि ब्रह्मधर्मत्वमेव बोध्यम् । यतस्ते श्रुत्येकसमधिगम्या ब्रह्मणि । लोके तु तेषां गमकं प्रमा- णान्तरमपि वर्तते । अत एतद्वत् 'सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः' इत्यादिश्रुत्यन्त

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 433, कुल 2600 में से · BharatKosha