अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 441, कुल 2600 में से
संदर्भ में पढ़ें१५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ६ सू० २० तस्मात् सर्वविलक्षणत्वादन्य एव, नाभिमानी । उपचारव्यावृत्त्यर्थमन्य- पदेनोपसंहारः । भाष्यप्रकाशः । लीलार्थम् । तं यदि भीषास्मादित्याद्युक्तरीत्या न नियमयेत्तदा सा सा लीला न सिध्ये- दिति । अत्र पुनरप्यन्तर इति पदम्, अन्तरं करोतीत्यन्तरयति, अन्तरयतीत्यन्तर इति सर्वान्तःस्थापकत्वबोधनार्थम् । एवमेते चत्वारोऽर्था उच्यन्ते । सूत्रे तु चकारात् पूर्वसूत्रोक्ता धर्माः समुच्चीयन्ते । तेन हेतुभेदेऽपि साध्यैक्यान्नाधिकरणभेदः । एवं श्रुतिं सूत्रं च व्याख्याय सिद्धमाहुः तस्मादित्यादि । तथाच भेदव्यपदेशात् सर्वविलक्षणत्वेन व्यपदेशा- दादित्यान्तर्वर्ती परमात्मा अन्य एव, नाभिमानीत्यर्थः । नन्वत्रान्य इत्यस्य साध्यत्वेन निर्देशादिदमधिकरणान्तरमेवास्त्विति चेत्तत्राहुः उपचारेत्यादि । तथाच, नेतरोऽनुपपत्तेरि- त्यादिना पूर्वाधिकरणं निषेधमुखेन विचारितं यथोपचारनिवृत्त्यर्थं तथेदमन्यपदेनोपसंहृतमिति तत्रेवात्रापि नाधिकरणभेद इत्यर्थः । ननु, उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेदेत्य- नेनोपासनाकथनात् तस्याश्च वाचो धेनुत्ववदारोपिताकारेणापि सिद्धेः किमर्थमयमाग्रह इत्यत रश्मिः । नस्येत्यादिभाष्यं विवृण्वन्ति स्म तस्येत्यादिना । भीषेत्यादि । 'भीषास्माद् वातः पवते भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः' ॥ इति तैत्तिरीये । उक्तरीत्येति उक्तरीत्या नामस्थानलीलार्थं न नियमयेदित्यर्थः । सा सेति प्रजायेयेति न्यायेनोच्चनीचभावेन सा सा लीला न सिध्येत् सर्वस्य भगवत्त्वेन समत्वात् 'स्थितिवैकुण्ठ- विजयः' इति स्थानलक्षणोक्तविजये तु सा सा लीला स्यादेव । अनेति य आदित्यमन्तर इत्यत्र पुनरन्तरपदस्यार्थः । सर्वान्तरिति सर्वान्तरं करोतीत्यर्थेनानुवादकत्वमिति भावः । चकारादि- त्यादि भाष्यार्थमाहुः सूत्रे त्वित्यादि । तेनेत्यादि चकारकृतपूर्वोक्तहेतुसमुच्चयेन । अन्यत्वरूपसाध्यै- क्यात् । साध्यभेदस्त्वधिकरणं भिन्द्यात् । यथोत्तरत्र । तस्मादित्यादीति । पूर्वं साध्यं परमात्मत्वं न त्वादित्यान्तःस्थत्वं तस्य संदिग्धसाध्यत्वेन पक्षत्वात् । अत्र तु परमात्मनः पक्षत्वं संदिग्धसाध्यव- त्त्वात् । अन्यत्वं साध्यं भेदव्यपदेशो हेतुः । अत्र साध्यतावच्छेदकहेतुतावच्छेदकयोरैक्यात्साध्यसाधन- त्वव्याहृतिर्दोषः । अन्यथा प्रसिद्धानुमाने वह्नेर्हेतोरपि वह्निसिद्धिः स्यात् । अतो हेतुपरिष्कारपूर्वकं सिद्धं सूत्रार्थमाहुः तस्मात् सर्वविलक्षणत्वादिति । तथा च सर्वविलक्षणत्वत्वं हेतुतावच्छेदक- मिति तयोर्भेदान्नोक्तदोष इति भावः । परमात्मनि तलक्षणेन सर्वविलक्षणत्वं सिद्धं, पृथिवीत्तरेभ्यो भिद्यते गन्धवत्त्वात् इत्यत्र यथा, सर्वविलक्षणत्वेन हेतुनान्यत्वसिद्धिः । यथा लक्षणेन सर्वविलक्षणत्वसिद्धि- स्तथा भेदव्यपदेशोपीति समानव्याप्तिज्ञानविषयत्वेन हेत्वोरैक्यं सारम् । उपेत्यादि 'आनन्दमानन्द- मयोवसाने' इति द्वितीयस्कन्धात् जीवस्याप्यानन्दमयत्वेनानन्दमयस्य तद्वाचकत्वे उपचरितत्वं स्यात्त- न्निवृत्तये इत्यर्थः । उपसंहृतमिति तथा चादित्यान्तःस्थाभिमानीव्यावर्तकत्वेनोपचारनिवृत्त्यर्थमेवमुप- संहृतमित्यर्थः । अनेनेति इतिश्रुत्यन्तर्गतवेदेतिपदेन । उपासनेति वेदेत्यनेनोक्तोपासनेत्यर्थः । वाच 352