अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 444, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३५५ भाष्यप्रकाशः। नाऽऽदित्यरूपस्य विभूतिमभिधाय एष पुरुष एष भूतानामधिपतिरिति भूतपतित्वेन तं निर्दिश्य तदग्रिमानुवाकेषु, सर्वो वै रुद्र इत्यादिषु, हिरण्यबाहवे अम्बिकापतय उमापतय इत्युपसंहारेण तत्र शिवाकारनिर्णयात् । अन्तर्यामिब्राह्मणे, एष त आत्माऽन्तर्याम्यमृत इति कथनाच्च । जाबालोपनिषदि, एतानि ह वा अमृतस्य नामधेयानीति शतरुद्रियप्रशंसावाक्येन अमृतपदस्य शिवपरतानिर्णयादत आदित्यन्तर्वर्ती त्रिलोचननीलकण्ठादिशरीरवानित्याहुः । तन्मन्दम् । शरीरपक्षस्य प्रागेव दूषितत्वात् । आकारेऽप्यक्षिस्थितस्य पुण्डरीकोपमाबोधनार्थत्वं तदा स्याद्यदि नीलग्रीवादिकं त्रिलोचनत्वसाधकमस्मिन् वाक्ये एतन्निर्णायकवाक्यान्तरे वा स्यात् । भूतानाम- धिपतिरित्यस्य तु न निर्णायकत्वम् । भूतपदस्य, क्षरः सर्वाणि भूतानि, पादोऽस्य विश्वा भूता- नीतिवत् प्राणिमात्रवाचकत्वेन प्रेतवाचकत्वाभावान्न नीलग्रीवादिरूपवल्लिङ्गकत्वम् । तस्य प्रेत- मात्रवाचकत्वे च परिच्छिन्नैश्वर्यबोधकत्वेन परमेश्वर्यविघटकतया तस्यालिङ्गत्वमेवेत्युभयथापि तदगमकत्वात् । सर्वो वै रुद्र इत्यादीनां तु नैतद्वाक्यशेषत्वम् । आदित्यो वै तेज इत्यनुवाकान्ते, इत्युपनिषदित्यनेन विद्यासमाप्तिबोधनात् । एवममृतपदस्यापि न निर्णायकत्वम् । शतरुद्रि- यस्याऽमृतनामकत्वेऽप्यमृतपदस्य शिवनामत्वाभावात् । इदं यथा तथा प्रहस्ताख्ये वादे निपुणतरमु- पपादितमिति नेह प्रपञ्च्यते । यत्पुनर्ध्येयः सदेत्यस्य लौकिकवाक्यत्वमुक्तं, तच्चाग्निपुराणा- रश्मिः। शैवः । जाबालेत्यादि । तत्र माध्वाचार्यमते विष्णुगुणावतारपरत्वं यच्छ्रुतीनामुक्तं तन्नारायणशिवो- विष्णुरितिवाक्यान्नारायणादीनां ब्रह्मनामत्वात् तत्परमेवेत्येतावान् विशेष इति तन्मतमपहाय शैवं निराकुर्वन्ति स्म तन्मन्दमित्यादिना । निर्णायकत्वं कोशादिभ्यां तदा स्याद्यदान्येषां पदानां शिववाचकत्वं स्यात्स च प्रायपाठेन. यथाकथंचिदप्यन्यपरत्वं तस्यां ^१ न त्वेवमित्याहुः भूतपदस्ये- त्यादि । अलिङ्गत्त्वमिति तव मते लिङ्गत्वमिति बोध्यम् । उभयथापीति उभे प्राणिमात्रवाचकत्व- प्रेतमात्रवाचकत्वे अवयवौ यस्य प्राणिमात्रवाचकत्वप्रेतमात्रवाचकत्वसमुदायस्स उभयस्तस्मिन् प्रकार इत्यर्थः । एतदुपपादितं प्रहस्ते...द्वितीयवादे शिवेशानादिपदानां शिवे रूढिखण्डनप्रस्तावे । वस्तुतः सर्वेषां शब्दानां सर्वार्थत्वस्य महाभाष्याद्यभिमतत्वेन ब्रह्मवाचकत्वस्यैवाभिप्रेतत्वात् । प्रतिनियतावन्नमात्रकार्यकरणेन ब्रह्मानुकारितया व्यवहारार्थमेव च शक्तिसंकोचे कोशेषु शिववाचकत्व- दर्शनेपि ब्रह्मवाचकत्वस्यापि पर्यवस्येतत्यादित्यादिना ग्रन्थेन । एतद्वाक्येति 'य एषोन्तरादित्ये हिरण्मयः पुरुषः' इति महोपनिषद्वाक्यशेषत्वम् । विद्यासमाप्तीति तदुत्तरविद्यास्थानां सर्वो वै रुद्र इत्यादीनामुत्तरविद्याशेषत्वमिति भावः । समाप्तपुनरासत्त्वदोषात् । न चानेकार्थसंकटे वाक्यशेषप्रवृत्तौ प्रतिबन्धे समाप्तेरप्रयोजकत्वमिति वाच्यम् । स्यादेवं यद्यनेकार्थत्वं स्यात् । तदेव तु न प्रायपाठात् । एवं च समाप्तेरसानन्तरप्रायपाठविघटकत्वाभावेन रुद्रादिपदानां समाप्तिवैयर्थ्यपरिजिहीर्षयानेकार्थ- संकटाभावे किंचिज्ज्ञापकत्वेन समाप्तेरप्रयोजकत्वाभावात् । इदमिति शरीरपक्षस्येत्यारभ्य निरुक्तम्। उपपादितमिति शरीर इत्यारभ्य हेत्वर्थकविभक्त्यन्तं प्रहस्ते प्रथमवादे उपपादितम् । आकारप्रतीति- र्ब्रह्मण एव सर्वाकारत्वादेवोपपद्येत्यादिग्रन्थेन । आकार इत्यारभ्य स्यादित्यन्तर्मन्तर्यामिविचारे पुण्डरीकाक्षत्वाञ्चिह्नित्वाभ्यामविलोनूखदा हरिरिति वैष्णवाः । ध्येयः सदा सवितृमण्डलेत्याद्यग्निपुराण- श्रीमद्भागवतवाक्ययोर्मकरकुण्डलवादिलिङ्गकथनाच्चेत्यादिना संदर्मेणोपपादितम् । लौकिकेत्यादि १. शिवपरतार्थकपदस्याभावान्न । 355