अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 450, कुल 2600 में से
संदर्भ में पढ़ेंत्यादि । आत्मन आकाशः संभूत इति कार्यनिरूपणम् । अतः प्रकरणादेव संदिग्धनिर्णये किमिति सूत्रारम्भः । जन्मादिलक्षणसूत्रेण चायमर्थो निर्णीतः । अन्यथा ब्रह्मशब्देऽपि संदेहः स्यात् । महाभूतवेदादिवाचकत्वात् । तस्मात् प्रकरणादेव परिज्ञानं भविष्यतीति चेत् । उच्यते । असंदिग्धे प्रकरणे तथैव निर्णयः । इह पुनः प्रकरणमपि संदिग्धम् । अतो विचारः । अवान्तरविद्यायां पर्यवसितप्रकरणवदस्यापि प्रकरणस्य भूताकाश एव पर्यवसानमिति लोकभाष्यन्यायेनाकाशो भौतिक एवेति पूर्वपक्षस्तत्राह । भाष्यप्रकाशः । प्रकरणादेवाकाशशब्दार्थस्य निर्णयसिद्धेराकाशः प्रकरणादिति सूत्रयितव्यम् । अथ प्रकरणापेक्षया लिङ्गस्य बलिष्ठत्वात् तेन निर्णिनीषा तदा तु जन्मादिसूत्रे लिङ्गस्य निर्धारितत्वात् तेनैवैतद्वा- क्यनिर्णयसिद्धेः सूत्रमेव न प्रणेतव्यम् । अथ जन्मादिसूत्रे लक्षणस्यापरीक्षितत्वान्न लिङ्गता, तदा त्विदानीं तस्याः सिद्धत्वादाकाशो ब्रह्मलिङ्गादित्येवं प्रणेतव्यम् । न तु तल्लिङ्गादिति पूर्व- पक्षाशयः । प्रतिवचनाशयस्तु स्फुट एव । प्रकरणस्य संदिग्धत्वं तु उपक्रमे उद्गीथोपासन- स्योक्तत्वादत्र परोवरीयोरूपस्योत्कृष्टस्य फलस्य कथनाच्च ज्ञेयम् । तेन विचारस्यावश्यकत्व- मिति । अधिकरणसंगतिस्तु प्रसङ्गरूपा । पूर्वाधिकरणयोः प्रत्ययकृते संदेहे वारितेऽत्र प्रकृति- कृतसंदेहस्य वारणीयत्वादिति । प्रयोजनमुक्त्वा पूर्वपक्षमाहुः अवान्तरेत्यादि । तथा च यथा जानश्रुत्युपाख्यानं संवर्गविद्यायां पर्यवसितं तथास्यापि प्रकरणस्य भूताकाश एव पर्य- रश्मिः । काङ्क्षारूपे ब्रह्मप्रकरणेऽत्र तृतीयब्रह्मप्रकरणे चकारेण विषयवाक्ये । अत्र लोकस्य भूतस्य गतिः कारणम् । निर्णयेत्यादि । आकाशपदस्य ब्रह्मवाचकत्वनिश्चयो ज्ञानं तस्य सिद्धेरित्यर्थः । भाष्ये । कार्यनिरूपणं किमित्याकाङ्क्षायामाहुः आत्मन इति । प्रकृते । जन्मादिलक्षणेत्यादिभाष्यं विवृण्वन्ति स्म अथेत्यादि । लिङ्गस्येति जगज्जन्मादिकर्तृत्वरूपस्य श्रुतिसामर्थ्यस्य । ब्रह्म- लिङ्गादिति । नन्वसिद्धस्य लिङ्गस्य कुत उपन्यासः व्यासोक्तत्वात् सेत्स्यतीति । न तु तदिति तस्माल्लिङ्गात्तल्लिङ्गादित्यर्थेऽसिद्धत्वात् । प्रतीत्यादि उच्यत इत्यादिनोक्तस्य प्रतिवचनस्येत्यर्थः । प्रतिवचने किंचिद्विवृण्वन्ति स्म प्रकरणस्येति । उक्तत्वादिति 'ॐमित्येतदक्षरमुद्गीथमुपासीत' इति श्रुतेरित्यर्थः । परोवरीय इति आकाशः परायणमित्यस्याग्रे पठ्यते 'स एष परोवरीयानुद्गीथः' इति । एवं च महाप्रकरणवदवान्तरप्रकरणमपि ह्यात्मपरमाकाशपरं वेति संदिग्धं वरीयसः का साम्नो गतिरिति स्वर इति होवाचेत्यादिश्रुत्युक्तस्वरप्राणाङ्गादेः सकाशादतिशयेन वरः वरीयान् इति व्युत्पत्तिः । परोवरीयान् परमात्मेति तदर्थः । विरुद्धा द्वितीया कोटिः पूर्वपक्षभाष्यस्य । अतो विचार इत्यत्र भाष्येऽत इत्यत्र सार्वविभक्तिकस्तसिल्लित्याशयेन तस्य भाष्यस्य विवरणम् । तेन विचारस्येति । स्मृतसोपेक्षानर्हत्वरूपं प्रसङ्गं स्मारयन्ति स्म पूर्वेत्यादि । प्रत्ययेत्यादि यद्यपि मयड्रूपप्रत्य- यमात्रकृतसंदेहो वारितस्तथापि अधिकरणानां न्यायरूपत्वेनैकसूत्रत्वम् । किं च पूर्वाधिकरणे यद्यपि हिरण्मयस्य आनन्दवाचीति भाष्येण प्रकृतिकृतसंदेहो वारितस्तथापि प्रकृतिमात्रकृतसंदेहो न वारितः इति प्रत्ययकृत इत्युक्तम् । अत्र तु विशिष्टप्रकृतिकृतसंदेहो वारितः । इतिर्ह्यधिकरणारम्भ- प्रयोजनस्यासौ । जान इत्यादि छान्दोग्ये षष्ठे प्रपाठके इदमस्ति । जनश्रुतस्यापत्यं जानश्रुति- 361