अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 462, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिबृंहितम् । १७३ ज्योतिश्चरणाभिधानात् ॥ २४ ॥ इदमामनन्ति । अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु इदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिरिति । तत्र ज्योतिःशब्देन प्राकृतं ज्योतिराहोस्विद् ब्रह्मैवेति संशयः । भाष्यप्रकाशः । ज्योतिश्चरणाभिधानात् ॥ २४ ॥ आमनन्तीति छान्दोग्ये पञ्चमप्रपाठके वदन्ति । श्रुतौ तु, विश्वतः पृष्ठेष्विति सर्वेषामुपरि अयं च विश्वशब्दो न संकोचसह इति ज्ञापनाय तदर्थकं शब्दान्तरं सर्वतः पृष्ठेष्विति । शेषं स्फुटम् । संशयमाहुः तत्र ज्योतिरित्यादि । अत्र लोकप्रसिद्ध्या, 'अनादिमत् परं ब्रह्म' इति प्रकृत्य पठितेन, 'ज्योतिषामपि तज्ज्योतिः' इति गीतावाक्येन च कोटिद्वयोपस्थितिः संशयबीजम् । पूर्वपक्षमाहुः अत्रेत्यादि । अय- मर्थः । लोके तमोविरोधी पदार्थ आदित्यादिर्ज्योतिःपदेनाभिधीयते । अत्र च दीप्यत इत्युक्तं, प्रकाशकत्वमपि तस्यैव लिङ्गम् । तथाग्रे, तस्यैषा दृष्टिर्यत्रैतदस्मिन् शरीरे संस्पर्शेनोष्णिमानं विजानाति, तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेर्ज्वलत उपशृणोतीति जाठरस्यापि लिङ्गम् । नच सूर्यादिप्रकाशस्य दिवोऽर्वागपि दर्शनाज्जाठरप्रकाशस्य च क्वाप्य- दर्शनादुभयोर्मध्ये गीतावाक्यादिभिर्ब्रह्मव ज्योतिःपदवाच्यतयादरणीयमिति वाच्यम् । ब्रह्मा- साधारणधर्मस्य तत्प्रकरणस्य चात्रानुपलम्भात् । अतस्तेजोधर्मस्यात्र दर्शनाद्, बर्हिराज्याधि- रश्मिः । ज्योतिश्चरणाभिधानात् ॥ २४ ॥ वदन्तीति यद्यपि श्ना अभ्यासे तथाप्युपसर्गबले- नायमर्थः । 'उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते' इतिवाक्यात् । मनिन् च ज्ञाने दिवादिः । मणिनण् स्तम्भे चुरादिः । मनू विबोधने तनादिरेषामात्मनेपदित्वात् 'ये धातुशब्दा यन्त्रार्थे' इति पत्रावलम्बनवाक्यस्य वेदराशिपरात्वात् । ननु वेदपदेनैव चरितार्थत्वे राशिग्रहणं ज्ञापयति भाष्यादीनामपि तथैव भाव्योऽर्थः इति चेन्न । षडङ्गपरत्वेनैव चरितार्थत्वादिति । स्फुटमिति । अत इत्यस्य स्वर्गाल्लोकादित्यर्थः । अनुत्तमेष्वित्यत्र न विद्यते उत्तमं येभ्य इति बहुव्रीहिः । न च तत्पुरुषः शङ्क्यः । तमपाकर्तुमेवाग्रे उत्तमेष्विति बहुव्रीहिफलितार्थकथनात् । इदं पूर्ववदनुत्तमेषूत्तमेष्वित्येतयो- र्व्याख्याने । लोकेष्वित्यस्य जनलोकादिष्वित्यर्थः । अत्रासाधारणब्रह्मधर्माभावात्पूर्वपक्ष इति भाष्ये हेत्वपेक्षितं पूरयन्तः पूर्वपक्षस्वरूपमाहुः अयमर्थ इत्यादिना । तस्यैषेति तस्य ज्योतिषो दृष्टिर्र्दर्शनमेषा का यत्र यस्मिन्काले श्रुतिः श्रवणं श्रवणोपायः को यत्र यस्मिन् काले कर्णावपिगृह्याङ्गु- ष्ठाभ्यां विधाय निनदमिव रथघोषमिव नदथुरिवर्षभकूजितमिवाग्नेरिव ज्वलत उप स्वान्तर्गतमेव शब्द- मेतच्छ्रवणं यथा स्यात्तथा शृणोतीति श्रुत्यर्थः । दिवोऽर्वागपीति तादृशश्रुत्युक्तज्योतिषस्तु 'यदतः परो दिवो ज्योतिर्दीप्यते' इति दिवः परं दीपनमुच्यते इति भावः । गीतेत्यादि आदिपदेन ज्योतिर्ब्राह्मणं 'ज्योतिर्दर्शनात्' इति सूत्रं च संगृह्यते । एवमपेक्षितं पूरयित्वाऽसाधारणब्रह्मपदं ब्रह्मप्रकरणास्यानुपलम्भकमिति सूचयन्तो हेतुमाभ्यार्थमाहुः अत्रेत्यादि । बर्हिराज्योत्यादि । अयं न्यायः पूर्वतन्त्रे प्रथमस्य चतुर्थपादेऽस्ति तत्र 'बर्हिर्लुनाति' 'आज्यं विलापयति' 'पुरोडाशं पर्यग्नि- 373