अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 467, कुल 2600 में से
संदर्भ में पढ़ेंन तु पादत्वं, न वा तद्दिग्धापूरकत्वमित्याशयेन तेषां षड्विधत्वमनिरूप्य हृदयस्यास्ति तथात्व- मित्यशयेन हृदयस्य षड्विधत्वं निरूपयन् वक्ता तस्य ह वेत्याद्युक्तरीत्या पञ्चविधाज्ञाना- नन्तरमथेति प्रकृतविच्छेदेन पूर्वोक्तविधाभ्यो ज्योतिषो वैलक्षण्यं बोधयंश्चतुर्थपादस्य षड्- विधत्वप्रतिपादनाल्ल्यब्लोपे पञ्चमीप्रतिपादनं कृत्वा, अतस्तृतीयातस्तसिः, अनेन प्रकारेण चतुर्थपादेत्युक्तरीत्या तदेव ज्योतिरन्तःपुरुष उपसंहरति । तस्मात् पूर्वं मन्त्रेति पादस्येति कथनात् पादत्रयमुपरि यतोऽतोऽत्र, तस्य ह वेत्यारभ्यान्तं विधानिरूपके वाक्ये चतुर्थः पादो निरूप्यत इति सिद्धम् । तथाच षड्विधत्वप्रतिज्ञाया विधानिरूपणसाकाङ्क्षत्वादङ्घ्रोपपादनस्य चाकस्मिकत्वा- भावाय प्रतिज्ञासाकाङ्क्षत्वादुभयोरेकवाक्यत्वम् । अतः परं ऋगवशिष्यते । सापि चतुष्पदात्व- षड्विधत्वप्रतिज्ञयोरनन्तरं तद्विवरणतयोकेति तच्छेषस्तस्मादुपपादनवाक्यात् पूर्वं च पठिता । तस्यां च त्रिपादस्याऽमृतमिति रीत्या पादत्रयं कण्ठत उपरितनलोकेष्वित्युक्तत्वादस्ति चतुर्थ- पादाकाङ्क्षा । चतुर्थश्च पादः सर्वभूतात्मको हृदयाधिष्ठानक इति तदधिष्ठानस्य हृदयस्य ज्योतिर्वाक्यपर्यन्तेन विवरणादाकाङ्क्षा पूर्यते । विव्रियमाणपादविधानां च स्वाधारभूतपाद- स्वरूपविवरणाकाङ्क्षा । सा च पादोऽस्य सर्वा भूतानीति भूतविवरणेन ऋचा पूर्यते । तथा पादपरिचायकत्वम् । निरूपयन्निति वेदान्तकृदिति भावः । ल्यब्लोप इति । अनुनासिकात्परोनुस्वारः इत्यत्र यथा तथेत्यर्थः । कृत्वेति अत्र प्रतिपादनं विधायेति पाठः । अस्मिन् पाठे यद्यपि क्त्वः प्रयोगैक्यं तथापि ल्यब्लोपो नाम ल्यबन्तशब्दाज्ञाने प्रत्यासत्त्या ल्यबन्तधात्वर्थकर्मण्यधिकरणे च पञ्चमीति शब्देन्दुशेखरे व्याख्यानात् । अत इति व्याख्येयमिदम् । अन्तःपुरुष इति अस्मिन्नन्तः- पुरुषे ज्योतिरिति श्रुतेः । तस्मादित्यादिभाष्यं विवृण्वन्ति स्म तस्मादित्यादि । विषयवाक्यात्पूर्वमन्त्रे । पादत्रयमिति अनुकरणशब्दोयं त्रिपादिति श्रौतस्य तेन सुपां सुलुक् इत्यनेन त्रिपादित्यत्र ङसो लुग्व्याख्यातः । त्रिभिः पद्यत इति च तथा च त्रिपादोऽस्येत्यन्वयः । अभेदषष्ठ्या त्रिपादभिन्नममृतं क्षेममभयमित्युक्तं पादत्रयमित्यर्थः । गूढार्थोग्रे वाच्यः । अत इति चतुर्थपादाकाङ्क्षायाः सत्त्वादित्यर्थः । आन्तमिति अन्तमन्तःपुरुषे ज्योतिरिति वाक्यं तदभिव्याप्येत्यर्थः । हृदयषड्विधायां ज्योतिषि चतुर्थः पादः इति भाष्यीयचतुर्थत्वं समर्थयितुं किंचिदाहुः तथा चेत्यादि । प्रतिज्ञेति षड्विधत्व- प्रतिज्ञेत्यर्थः । भाष्ये । उपरितनेति । 'पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः । अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु' ॥ इत्यनेनैकवाक्यतार्थं बहुवचनम् । पादत्रयमुपरितनलोकेषु, चतुर्थः सर्वत्रेति । प्रकृते । तच्छेष इति व्याख्यानस्य व्याख्येयार्थत्वेन पारार्थ्यादिति भावः । पारार्थ्यं शेषलक्षणम् । उपेत्यादि तस्य ह वा एतस्य हृदयेत्यादिषड्विधोपपादनवाक्यं तस्मादित्यर्थः । त्रिपादस्यामितीति भाष्ये त्रिपाद्, अस्य, अम्, ऋतमिति पदच्छेदं मत्वोक्तम् । अत्र पक्षे संबन्धोऽभेदो बोध्यः । आकाङ्क्षेति चतुर्थपादाकाङ्क्षा पूर्यत इत्यर्थः । सर्वभूतात्मक इति सर्वाणि भूतानीति पादस्य भूतरूपस्य विवरणात् स च पृथ्वीरूपः पृथ्वी च शरीररूपा शरीरं च हृदयरूपमिति संकोच इति हृदय- विधारूपचतुर्थपादो ज्योतिरूपः सर्वभूतात्मकः । हृदयं व्यवच्छेतुं विशिषन्ति स्म वीत्यादि । स्वाधारभूतेति एतादृशः पादो हृदयात्मा । भूतेत्यादि करणे तृतीया । ऋचेति कर्तरि तृतीया ।