अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 474, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १८५ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् ॥ २४ ॥ ननु नात्र ब्रह्म चतुष्पात्निरूपितं किंतु गायत्रीछन्दः । 'गायत्री वा इदं सर्वं यदिदं किंच' इत्युपक्रम्य तामेव भूतपृथिवीशरीरहृदयभेदैर्व्याख्याय, 'सैषा चतुष्पदा षड्विधा गायत्री। तदेतदृचाभ्युक्तं, एतावानस्य महिमा' इति। तस्यामेव व्याख्यानरूपायां गायत्र्यामुदाहृतो मन्त्रः कथम कस्माद् ब्रह्म चतुष्पादभिद- ध्यात् । यद्वै तद् ब्रह्मेति ब्रह्मपदमपि छन्दसः प्रकृतत्वात् तत्परमेवावगन्त- व्यम् । शब्दस्यापि ब्रह्मवाचकत्वसिद्धेर्ब्रह्मोपनिषदितिवच्छन्दोब्रह्मेति च । तस्मा- च्छन्दस एव पादाभिधानान्न ब्रह्मधर्माः पादा इति चेन्नैष दोषः । तथा चेतोऽर्पणनिगदात् । तथा तेन द्वारेण चेत