अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 476, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३८७ तद्वाचकत्वेन गायत्र्यामुपचारेणोपसंहारः । चकारार्था न शब्दस्य पादा भवन्ति, किंत्वर्थस्यैवेति । तस्माद्ब्रह्मवाक्यत्वे भूतादीनां पादत्वमुपपद्यते नान्यथेति । तस्मात् पादानां ब्रह्मधर्मत्वम् ॥ २५ ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २६ ॥ ‘पादोऽस्य विश्वा भूतानि’ सर्वाणि भूतान्येकः पादः । पादत्रयममृतं दिवीत्येकोऽर्थः । ‘पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः । अमृतं क्षेममभयं त्रिमूर्द्धोऽधायि मूर्द्धसु’ ॥ इत्यपरः । भाष्यप्रकाशः । इति शङ्क्यम् । पुरुषसूक्तविवरणाध्याये चैतद्गव्याख्यान आश्रमचतुष्टयस्थानां भौतिकशरी- विशिष्टजीवानामेव व्याख्यातत्वाच्छरीरवैशिष्ट्ये च भूतपृथिव्यादेरपि परिचायकत्वेनैव संगृ- हीतत्वस्मृत्या ग्रहणे तद्विरोधापत्तेस्तन्मुख्यतया वक्तुमशक्यत्वात् । नच गायत्री चेति वाक्य- विरोधः । अस्मिन् वाक्य इत्याद्युक्तरीत्या तेषां गायत्र्यामुपचारेणोपसंहार इति तद्विरोधा- भावादित्यर्थः । तद्वाचकत्वेनेति ब्रह्मवाचकत्वेन । उपसंहार इति सैषा चतुष्पदेत्यादिनोक्तः सः । तथाच पादानां ब्रह्मधर्मत्वाभावे गायत्र्यां तद्व्यपदेशस्यापि वक्तुमशक्यत्वात् त्वया स्वमतोपपादनायाप्यस्मदुक्तमवश्यमङ्गीकरणीयमिति, गलं पादुकान्यायेन तदङ्गीकारणं प्रयोजन- मित्यर्थः । एतेन सूत्रस्थमेवंपदं व्याख्यातम् । स्फुटमन्यत् ॥ २५ ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २६ ॥ सूत्रं व्याख्यातुं तदर्थं रश्मिः । तन्मुख्यतयेत्यादि तेषां भूतपृथिवीशरीरहृदयानां मुख्यपादताया इत्यर्थः । स इति चतुष्पाद् ब्रह्मत्वेन दृष्टा गायत्र्येतदुपासनोक्तफलाय भवतीत्येतदर्थं पादानां विधानं चोपसंहार इत्यर्थः । वृत्त्यनुसारेणेदं प्रतिज्ञावाक्यमुक्तम् । गले पादुकान्यायेनेति अयं क्वचित्प्रसिद्धः कैकेय्या रामराज्यार्थं यतन्त्या रामपादुकां गले खे कृते इति न्यायो वा । भरतेन रामपादुके सेविते इति तयापि तथा । एवमनिच्छतोपि ग्राहिते पादुके यथा तथेदमपि वृत्तमित्यर्थः । ब्रह्मण एव पादा युक्ता इति सूत्रस्थसैवंपदस्यार्थ इत्याहुः एतेनेत्यादिना । वृत्तौ त्वेवमित्यस्य तव मतोपपत्तिरित्यर्थ उक्तः । अन्यदिति तस्मादित्यादिना सिद्धकथनं स्फुटार्थमित्यर्थः ॥ २५ ॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २६ ॥ अत्रैवं भाति । बहुधा हि पादनिरूपणं भवति तत्र ‘पादेषु सर्वभूतानि’ इत्यत्र मुरादयः पादाः ‘पादास्त्रयो बहिश्च’ इत्यत्राश्रम- स्था जीवाः पादाः । पादोस्येत्यत्र सर्वभूतान्येकः पादोऽमृतादयस्त्रयस्त्रयः पादा इति सिद्ध्यति । किं चाकारउकारमकारार्थमात्राकाराः पादाः ब्रह्मविष्णुकपर्दितुरीयपादाः भूतपृथिवीशरीरहृदयानि पदानि । प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलाः पादाः । पृथ्वी कलाऽन्तरिक्षं कला द्यौः कला समुद्रं कलाः पादाः । अग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलाः पादाः । प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलाः पादाः । एकश्छन्दश्च संख्यावाची । मुख्यत्वं च पुरःस्फूर्तिकत्वे 387