अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 485, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the text from the image into clean Unicode Devanagari Markdown:
३९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १० सू० २९ र्वातृत्वम् । न वाचं विजिज्ञासीत वक्तारं विद्यादिति चोपक्रम्य, तद्यथा रथस्यारेषु नेमिरर्पिता, नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः, प्रज्ञामात्राः प्राणे अर्पिताः। स एष ( प्राण एव ) प्रज्ञात्माऽऽनन्दोऽजरोऽमृतो न साधुना कर्मणेत्यादिविषयेन्द्रियव्यवहारे अरनाभिभूतं प्रत्यगात्मानमेवोप- संहरति । स म आत्मेति विद्यादिति चोपसंहारः। तस्मादध्यात्मसंबन्धबाहुल्याद् ब्रह्मोपदेश एवायम् ॥ २८ ॥ तर्हि बाधकस्य का गतिरित्यत आह । शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ २९ ॥ पूर्वसूत्रेणापरिहृतमत्र परिहरति तुशब्दः । अयं दोषो व्यवहारदृष्ट्यो- प