अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 487, कुल 2600 में से
संदर्भ में पढ़ें१९८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० १० सू० २९ नुपपन्नः । तत्र यथा ज्ञानावेशात् सर्वधर्मस्फूर्तिरेवमत्रापि ब्रह्मावेशादुपदेश इति । भाष्यप्रकाशः । ब्रह्मणि लीनत्वादनुपपन्नः । न प्रेत्य संज्ञास्तीति श्रुत्यन्तरे ब्रह्मभूतानां भिन्नतया सानुसंधाना- भावबोधनात् । तर्हि कथमेवमुक्तं तत्राहुः तत्र यथेत्यादि । ब्रह्मावेशादिति शास्त्राभ्यास- रश्मिः । संभोगं कुरुतादिति पूर्वत्रार्थः । प्रकृते तु मा मामात्मन एव जनयित्वा कथं नु संभवाति सम्यक् प्रकारे- णैक्यप्रकारेणाभक्तिमार्गीयेण भवाति भवतात् सत्तां कुरुतादित्यर्थः । हन्तेति खेदे । तिरोधानि रूपान्तरेण तिरोभूतो भविष्यामीति अथवा स्वसर्वस्वत्रेयं प्रक्रिया । भू सत्तायां लेट् 'लिङर्थे लेट्' इति सूत्रात् लेट्स्तिप् भूति इति स्थिते 'सिब्बहुलं लेटी'त्यतः सिप् इत्लोपे कृते भू