अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 514, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४२३ व्यापारे स्वयमुपलब्धनिजसुखानुभवरूपं ब्रह्म। इदमेव ब्रह्मज्ञानमिति। अतस्ता- दृशस्यानुभवैकवेद्यत्वादयुक्तमविषयत्वम्। पाकभोजनतृप्तिवत्। भाष्यप्रकाशः। द्रष्टव्यपदोक्तस्य ज्ञानस्य स्वरूपकथनम्। इदमिति ब्रह्मस्वभावजन्यम्। युक्तमिति अनुभवस्य प्रादुर्भावापेक्षत्वात् प्रादुर्भावस्य च वरणाधीनत्वात् प्रमाणबलस्य कौण्ठ्येन तस्याकिंचित्करत्वा- द्युक्तम्। तथा चैतत्सर्वमनुसंधाय जिज्ञासासूत्रप्रणयनाद् व्यवहारस्थापनं प्रथमाधिकरणार्थ इत्यर्थः। रश्मिः। इति ध्यानादिसमाध्यन्तरूपनिदिध्यासनरूपं ब्रह्मेत्यग्रेतनब्रह्मपदेनान्वयः। तदुक्तं अत्र ज्ञानमिति शेष इति। अग्रे पाठो वेत्यत्र वाकारोऽनादर इति। यद्वा, निदिध्यासितव्य इत्यत्र निदिध्यासनेति इत्यर्थाद् रूपपदेन निदिध्यासनेन रूप्यते व्यवह्रियते यज् ज्ञानं ब्रह्मेति भाष्यप्रकाशे प्रकाशितम्। नितरां ध्यायसत इति निदिध्यासनं सनन्ताद् ध्यै चिन्तायामित्यस्माद् भावे ल्युट्। डुवोरनार्को सनर्थोऽविवक्षितः रामानुजाचार्याणां विविदिषन्तीत्यत्र यथाऽविवक्षितः। ननु वेदोक्षर- मात्रमपि नानर्थ्या वदतीति भाष्यात् सनर्थो वाच्य इति चेच्छृणु तात्पर्यं, ध्यानादीन्द्यापि पुरुषार्थसाधिकेति। यथा जिज्ञासा विचारः सन् प्रत्यये न तु ब्रह्मज्ञानेच्छा पुरुषार्थसाधिका तद्वत्। तथा च गोरक्षसंहिता। 'यत् समाधौ परं ज्योतिरन्तरं विश्वतोमुखम्। तस्मिन् दृष्टे महायोगिर्गतायातं न विद्यते' ॥ इति। 'ता नाविदन् मय्यनुषङ्ग' इत्यादि श्रीभागवते। अथवा तपो वैराग्ययोगे ज्ञानमित्यु- क्तेर्ज्ञानयोगतः यः सेवते हरिमित्यत्र तथात्वे मध्यमाधिकारकथेयमित्याहुः अत्र ज्ञानमिति। तथा च तपोवैराग्यफलं ज्ञानं निदिध्यासनेपीति भावः। लाघवायाहुः रूपेत्यादि। तथापि निदिध्यासितव्य इत्यस्य प्रत्ययार्थानुक्तिप्रसङ्गः। ज्ञानस्येति सपरिकरस्य। स्वरूपेत्यादि गीतायामात्मसंयमयोगा- ध्याये 'शुचौ देशे' इत्यादिनासनप्राणायामाभ्यां मनसि सर्वतो निवृत्तव्यापारे 'यदा विनियतं चित्तमात्मन्येवावतिष्ठते' इत्युक्तेः विनियते स्वयम्। 'प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्। उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्' ॥ इति स्वयमुपलब्धं निजसुखं तस्यानुभवरूपम्। 'युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः। सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते' ॥ इति प्रोक्तं ब्रह्मेत्येवं स्वरूपकथनमित्यर्थः। ब्रह्मस्वभावेत्यादि एष ब्रह्मणः स्वभावः पूर्वोक्तमनसि स्वयमुपलब्धं यन् निजमनन्तं सुखमानन्दस्तस्य स्वेन विषयीकरणं तद्धेतुः। तेन स्वभावेन जन्यं ज्ञानं तदेव विषयात्मकं स्वेनेतिपदोक्तम्। न च नित्यज्ञाने जन्यपदप्रयोगानुपपत्तिरिति वाच्यम्। जनी प्रादुर्भाव इति प्रादुर्भावार्थकधातुप्रयोगात्। विषयजन्यज्ञानप्रादुर्भाववत् प्रतीय- मानप्रादुर्भाव इत्युपचारात्। ननु चेदं बुद्धिस्थमिति व्याख्यानं त्यक्त्वा कुतो ब्रह्मस्वभावजन्यमिति व्याख्यानं गौरवग्रस्तमिति चेन्न, 'अथातो ब्रह्मजिज्ञासा' इति प्रतिज्ञाय 'जन्माद्यस्य यतः' इतिसूत्रे १. दर्शनायं । ५४ ब्र० सू० २ ० 423