अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 516, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४२५ रश्मिः । निरूपणान्नन्वौडुलोमिना तस्यापि बनवगाहः संपद्याविर्भावाधिकरणेऽप्यौडुलोमिमतेन चिन्यात्रमक्तसाव- बोधाचेडः । सैद्धान्तिकपक्षे तु ज्ञानादिरूपमक्षणा सत्यस्य भक्तस्य भेदः । भक्तो रमारूपः श्रीभागो वाक्सरं वा षष्ठपत्त्यधिकरणे वक्ष्यमाणम् । 'मम योनिर्महह्म तस्मिन् गर्भ दधाम्यहम्' इतिवाक्यात् । भाष्यास्तु स्वन्वते पदद्वयलक्षणातो वरं भद्दीला तत्पदे लक्षणा । तथाहि धान्यमसि धिनुहीत्यत्र तण्डुले धान्यसम्बन्धवदधीनत्वात्तदिति व्यपदेशः । प्राणबन्धनं हि सौम्य मनः इतिवाक्यशेषे जीवस्येवा- धीनत्वोक्तेः । 'यदधीना यस्य सत्ता तत्तदित्येव मन्यते । विद्यमाने विमेदेपि मियो नित्यं स्वरूपतः' ॥ इति भारतोक्तेरित्याहुः । तथा च 'तस्मान् न भिन्ना एतासामाभिर्मित्रो न वै विभुः' इति कृष्णोपनिषच्छ्रुतेर्भक्तसाम्याद्भेदान्वयः । युक्तिरपि । आत्मनो भक्तकृतमानोरथिकपदार्थानां भागरूपाणां त्यागेन भक्तेष्वलन्तानुग्रहाविर्भावितानां त्यागेन कृष्णोपनिषच्छ्रुत्युक्तोऽभेदः । यदि भागलागलक्षणा न स्याच्छ्रुतिरभेदं न वदेत् । इत्यभेदान्वयोपपत्तिः । नन्वभेदान्वयः पूर्वोक्तानुपपन्नो भक्तसाम्यदा- ढर्यात् 'अन्तरा भूतग्रामवत्'इति सूत्रे तथा प्रतिपादनादिति चेत् न भक्तस्य चतुर्विधपुरुषार्थेषु प्रभुरूप- कामत्वेपि ज्ञानेन वासुदेवरूपमोक्षरूपेण संचारिभावे व्यतिहारसूत्रोक्तोऽभेद उपपन्न इति । अधुना ब्रह्मसत्ताचेतरि सति साधु सत्यं तस्य ज्ञानपदसामानाधिकरण्यं सर्वसंमतम् । नीलमुत्पलमिवित्यत् । न च सार्वदिकसेव्यसेवकभावसंबन्धं त्यक्त्वा कादाचित्काभेदमादाय सार्वदिकाभेदप्रतीतिसमर्थनं दुर्घटमिवेति वाच्यम् । ज्ञानकाण्डमिति समाख्यया व्यतिहारसूत्रोक्ताभेदज्ञानस्य मुख्यत्वात् । सेव्यसेवकभावस्तु कोटिष्वपि सुदुर्लभस्य नारायणपदस्य प्रशान्तात्मनः । 'मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने' ॥ इतिवाक्याद् भवत्यत एव भक्तेः काचित्कं निरूपणं भक्तैकसमधिगम्यं च । अत एव साक्षाद्भक्तिर्नास्त्येवेति द्वितीयस्कन्धषष्ठाध्यायसुबोधिनी परंतु नवमाध्यायस्य न भवतीत्य- सिद्धान्तरूपा भक्तिपोषिका । ननु निर्व्यलीकप्रवेशकामनया कृतं भगवद्भजनं येन तस्य पुंसः सिद्धतु वार्त्ताऽभेदसंसर्गोपोलिका प्रवर्त्ततां तावद्रमारमणवार्ता । तादृशां सत्यपदवाच्यानां रमादीनां रमणस्य ज्ञानादिपदवाच्यस्य च सार्वदिकः सेव्यसेवकभावः संसर्गी न लभ्येद इति चेन्न, श्रुतावप्रतीतत्वेनास संसर्गस्यानाविष्करणस्य विवक्षितत्वात् । 'अनाविष्कुर्वन्नन्वयात्' इतिसूत्रात् । अनाश्रमधर्मैरैव लोके स्वं भगवद्भावमनाविष्कुर्वन् भजेतेतिभाष्यात् । न चायमभेदः परमहंसधर्मः परमहंसोपनिषदि तचोक्तर्न गृहस्थधर्मस्तथा चाश्रमधर्मोपि भाष्ये गृहस्थस्य विवक्षितः 'ऐहिकमप्रस्तुतप्रतिबन्धे तदर्शनात्' इतिसूत्रे 'आचार्यकुलात्'इत्युपक्रम्याग्रे पठ्यते 'धार्मिकान् विद- धत्' इति, अतो धार्मिकपुत्रविधानमैहिकं कर्म श्रुतौ दृश्यत इति भाष्यादिति वाच्यम् । तत्र गृहस्थधर्मैरनाविष्कारोपेत्यन्यत्र परमहंसादिधर्मैरनाविष्कारे बाधकाभावात् । आश्रमधर्मैरिति साम्ये चाश्रमधर्मस्य गृहस्थमात्रधर्मत्वविवक्षितत्वे चाऽनपसंबोधापत्तेराचार्यत्वाद्युक्तभाष्यस्य तत्सङ्क- चितत्वात् । यद्वा, गोपाळतापनीये 'स होवाचाव्ययोनिस्त्वितूर्दिदेवैः कल्पमेको देवः स्याद् । १. मत्र पृच्छा दत्ता भाति । 425