अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 521, कुल 2600 में से
संदर्भ में पढ़ें५३० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० २ अ० १ सू० १ रश्मिः । ज्ञानत्वगमनन्तत्वमानन्दत्वमित्येवं रूपचतुष्टयात्मकः । न च समवायः संबन्ध इति शङ्क्यम् । समवायाभ्युपगमसूत्रे तर्कपादे तादात्म्यस्य भाष्यप्रकाशे एभिरङ्गीकारात् । एवं चोक्तब्रह्मणो ज्ञानं जीवस्य सत्यपदवाच्यभक्तस्यानन्तानन्दस्य ब्रह्मणो ज्ञानमनुभवः । न च ब्रह्मरण इति भेदषष्ठ्या विषयत्वमात्मायुक्तमविषयत्वमितिभाष्यविरोध इति शङ्क्यम् । तादृशज्ञानसाविषयत्वेनांशतो विषयत्वा- भावेन सर्वस्य युक्तमविषयत्वमिति । न च स्वगतद्वैतापत्त्या ब्रह्मज्ञानं, ब्रह्मज्ञानमिति कर्मधारयः इतिवान्च्यम् । श्रीगोपालतापनीयश्रुत्या षष्ठीतत्पुरुषेपि स्वगतभेदाभावात् । कर्मधारयस्तु संभवत्यपि न चतुष्टयरूपब्रह्मण एकज्ञानत्वायोगात् अभेदान्वयाभावात् । ब्रह्म न ज्ञानमात्रमिति भेदावगाहि- प्रत्ययात् । घटपटकुड्यकुसूलानि न घट इति प्रत्ययवत् । सत्यं ज्ञानमनन्तं ब्रह्मेत्यभेदोपि 'स्वयमेवात्म- नात्मानं वेत्थ त्वं पुरुषोत्तम' इतिवाक्यात् । ब्रह्मज्ञानैकवाक्यतार्थै ततोप्येवमिति आरभ्य ब्रह्मेत्यन्त- फक्लिकार्थः क्रियते । इदमेव ब्रह्मज्ञानमिति फक्तिकैकवाक्यतारोधकभाष्यात् । पदचतुष्टयस्य सत्य- मनन्तमानन्दं ज्ञानमिति क्रमेण । तत्र सत्यपदार्थमाहुर्भाष्ये तत इति । तत इति क्रमवाचकं पदं मननानन्तरमित्यर्थः । एवमभ्यासेनानृत्त्येति यावत् । आवृत्तिरसकृदुपदेशादिति सूत्रात् । पूर्वोक्तार्थस्य निर्धारणे श्रवणमनने स्ताम् । ननु निर्धारणार्थं मननमावृतं भाष्ये प्रोक्तम् । निर्धारणे मननं भवतीतिभाष्यात् इतिचेत्तर्हि तद्दाढ्ये पूर्वोक्तार्थस्य निर्धारणदाढ्ये वा श्रवणमनने स्ताम् । 'निमित्तात् कर्मयोगे' इत्यस्य प्राप्तिरपि न यया निर्धारणार्थमित्यर्थो भवेत् । तथा च ततोप्येवं भवतीति भाष्य- योजना । एवं वाक्यभेदो विभाव्येत, तर्हि ततोप्येवं पूर्वोक्तश्रवणमननयोरावृत्त्या ध्यानादिसमाध्यन्त- रूपनिदिध्यासनरूपं ब्रह्मेति योजना । निदिध्यासनत्वं ध्यानादिसमाध्यन्तत्वं प्रेम्णो ध्यानादितः पूर्वस्य सत्त्वं ज्ञेयम् । 'भक्त्या प्रसन्ने तु हरौ तं योगेनैव योजयेत्' इति निबन्धात् । द्वितीयस्कन्धे ध्यानादितोन्यस्याभावात् । तत्र ध्यानं ध्यै चिन्तायामित्यस्य रूपम् । अत्र ध्यानविषयः सत्यपदार्थस्तत्र साधुस्त्वमपि ध्यानरूपं यत्प्रत्ययार्थः । एवं धारणायां सत्यदार्थे ध्यानविषयत्ववज्ज्ञानानन्तपदार्थ- योरपि ज्ञेयम् । अत्र ध्यानं ध्यानबिन्दूपनिषदुक्तं तथाहि । 'स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत्' ॥ इत्यत्र निर्मथनदण्डत्वेन ध्यानमुक्तम् । ध्यानं निर्मथनं तस्याभ्यासः पुनः पुनः कीर्तनमावर्तनं वा तस्मादित्यर्थः । एवं पूर्वोक्तपरामर्शन । पूर्वोक्तं तु । 'प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्' ॥ इति श्रुत्युक्तम् । व्यध ताडने तड आघाते आघातः गत्यर्थस्य हन्तेः । निगूढवदिति गुहू संवरणे संवरणाग्निवत् । द्विती- यान्ताद्वतिः प्रथमान्ताद्वा वतिः स्वीयत्वेन सम्यग्वृतवत् स्वीयत्वेन सम्यग्वृतं वा स्वीयत्वेन सम्यग् वृत्तो वा गायत्र्यर्थकारिकासु प्रणवार्थोक्तेः । सर्वात्मभावकारणं वरणं साधनाध्याये लिङ्गभूयस्त्वाधिकरणेयवरण- जसर्वात्मभावेति भाष्यात् । प्रणवचतुरात्मा आत्मा सत्यं ब्रह्म त्रितयात्मेति न लक्षणश्रुतौ अधिकपदार्थ- निवेशः शङ्कनीयः । नवीनभावजनक इत्यादिगायत्र्यर्थनिरूपणकारिकासु प्रणवार्थः साधुत्वप्रयोजकः । यद्यपि ध्यानबिन्दुःसमाख्यांतस्तेजोबिन्दुः परं ध्यानमिति परपदसामर्थ्यं बलीयस्तथापि तद् ध्यानम् । १. सम्यक् रूपितः रुचितः । ५३०