अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 533, कुल 2600 में से
संदर्भ में पढ़ेंयज्ञ इति यावत् । तस्य स्वरूपं मनोमयः प्राणशरीर इति । उपासनाप्रकरणत्वादुपासनैवैषा । तत्र मनोमय इति प्रमाणभूतो वेद भाष्यप्रकाशः । द्रव्यदेवते यज्ञस्य स्वरूपभूते । ते चात्रानुक्ते इति कथं यज्ञत्वावगतिरित्यत आहुः तस्येत्यादि । तथाच द्रव्यादिरहितोऽयं ज्ञानयज्ञ इत्यर्थः । ननु यस्य भूयाꣳसो यज्ञक्रतव इत्यादिश्रुतिष्वादा- वङ्गोपाङ्गसहितहविस्त्यागरूपक्रियायाः क्रतुत्वेन प्रसिद्धत्वान्मानसस्यास्य कथं क्रतुत्वमित्यत आहुः उपासनेत्यादि । तथाच प्रकरणबलाद्रूढिमनादृत्य क्रियतेऽसौ क्रतुरिति योगं चादा- योपासनाद्रियत इत्यसात्त्वात्वमित्यर्थः । तर्हि कोऽत्र विषय इत्यतस्तं प्रकटयन्ति तत्र मनोमय इत्यादि वेदस्य मनोमयत्वं तु रश्मिः । सर्वं ब्रह्मस्वरूपमिति भावार्थपादे भाष्यादावस्ति । ज्ञानयज्ञ इति 'द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्त- थापरे । स्वाध्यायज्ञानयज्ञाश्च, यतयः संशितव्रताः' इत्यत्र शांकरभाष्ये ज्ञानं शास्त्रार्थपरिज्ञानमिति व्याख्यानेन न्यायसंभृतो वेदान्तार्थनिश्चयो ज्ञानं तद्रूपो यज्ञः । भारूप इति श्रुतिविशेषितत्वादित्यर्थः । भाष्यार्थस्तु तस्य क्रतोः स्वरूपं मनोमय अमः सुः । मनोमय इति द्वितीयान्तम् एवं प्राणशरीर इत्यपि द्वितीयान्तं प्रथमान्ते वा पदे आत्मा मनोमय इत्यादिमननम् । एतेन क्रतुध्यानं तस्य विषयमाह मनोमय इत्यादीति प्रत्युक्तम् । अन्वित विभक्त्यपेक्षया तस्य विषय इति शेषपूरणस्य गुरुत्वादिति । एषा•••••••••••गीताधिकरणेऽस्ति । गीतायामप्येतद्विशेषणद्वयमिति संक्षेपेपि•••••••••••••• भारूपः सत्यसंकल्प इत्यादिकविशेषणानां त्यागः । यस्य भूयांसो इति श्रुतिः प्रथमाध्याये तृतीयाह्नके संहितायां श्रूयते । अस्या अर्थो मान्ये द्रष्टव्यः । मानसस्येति कामः संकल्प इति श्रुतौ धीर्मन इत्युक्तेर्मानसत्वं ज्ञानस्य क्रियात्वं केन प्रकारेणेति प्रश्नः । प्रकरणस्य श्रुतिलिङ्गवाक्यानां प्रबलानांमभावात् । निर्णायकत्वं भाष्ये आहुः उपासनेत्यादि । प्रथमोत्कोपासीत इत्युपासना स्मरणात्मिका मनोव्यापारविशेषरूपा वा••••••••• ऽवर्जनीयप्रबलव्याकृताः क्रियारूपत्वस्य श्रुतिलिङ्गवाक्यप्राप्तत्वेपि उपक्रमविरोधादर्थानिर्णायकत्वात् । अतोऽत्र क्रियायां क्रतुपदस्य रूढिमनादृत्य क्रियते उपास्यते इत्यसौ विप्रकृष्टः क्रतुः । क्रतुशब्दार्थस्तु मननमित्यग्रे वक्ष्यते । मनोमययज्ञेनेति मननं करणाधिकरणयोश्चेति करणे ल्युट् । मनुते इत्युक्तम् । मन अवबोधे । ज्ञानं विषयमिति प्रकृतत्वेन दिश्यदवि••••विप्रकृष्टं ज्ञानमुच्यते । यद्यपि तज्जलान् इत्युक्त्या तज्जत्वेन तल्लत्वेन तदनूत्वेन सर्वज्ञानविषयत्वात्तज्जलादिप्रकारकसर्वविशेष्यकज्ञानत्वात् तज्जलेन सर्वं खल्विदं ब्रह्मेत्यभेद उपपन्नः । यथा काकाज्जातः काकः तथापि व्यञ्जानासम्भवेदतो भेदे प्रकारान्तरम् । ब्रह्म तावच्चतुष्पात् । चतुष्पात् ब्रह्म विभातीति श्रुतेः । अतः तज्जत्वेपि चतुर्मूर्द्दे- कत्ववत् चतुर्णां पादानामेकत्वमेकमेवाद्वितीयं ब्रह्मेति श्रुतिसिद्धम् । अपेक्षाबुद्धिजन्यत्वेपि द्वैतस्य द्वैतविशिष्टैतत्तत्स्वरूपस्य सत्त्वात् । ब्रह्मप्रकरणे 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' इति गीतावाक्यात् । तत्र तैजसस्य समष्ट्याधिकस्य प्राज्ञस्य सुषुप्तिसाक्षिकस्य च नानात्वकत्वेन ब्रह्मत्वं युक्तम् । 'विश्वो वैश्वानरः प्रथमः पादः' इति विश्वस्य दुःखित्वेन नास्रोत्पत्तिमत्त्वेन सशरीरत्वेना- ऽब्रह्मत्वमज्ञानेन प्रतीयते । तत्र प्रतिविधासामः । आविर्भावतिरोभाववादे विद्वन्मण्डने नास्रोत्पत्ति- रतीती भ्रान्ते इति स्फुटमुपपादिते । दुःखित्वं स्वज्ञानकृतमात्सर्यादिभिः सुखपरिणाम एव मनः- सुखं मात्सर्यादिभिरसह्यं तद्दुःखमित्युच्यते वाराहे चातुर्मास्यमाहात्म्ये सह्यम् । शरीरं तु मांसशरीरं ब्रह्मेत्याकाशपदवाच्यम् । मांसशरीरत्वं तस्माद् वा एतस्मादात्मन आकाश संभूतः 442