अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 555, कुल 2600 में से
संदर्भ में पढ़ें४६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ५ रूपाकथने तादृशं फलं सिद्ध्यतीति चकारार्थः अधिकरणसंपूर्णत्वद्योतकश्च ॥ ४ ॥ इति प्रथमाध्याये द्वितीयपादे प्रथमं सर्वत्र प्रसिद्धोपदेशाधिकरणम् ॥ १ ॥ शब्दविशेषात् ॥ ५ ॥ ( १।२।२ ) इदमाम्नायते । 'यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैव- भाष्यप्रकाशः। कतैव प्रसज्येतातस्तदपि प्राप्तत्वेनैवावगन्तव्यमित्येष चकारार्थ इत्यर्थः । एवं चात्र जगदुत्प- त्तिकर्तृत्वनिर्वाहकाणां सत्यसंकल्पत्वादिधर्माणां ब्रह्मणि साधनेन तदसंभवः परिहृतः । प्रयो- जनान्तरमाहुः अधिकरणेत्यादि । एतेनैव पूर्वपक्षस्योपशान्तत्वात् तथेत्यर्थः । अन्ये त्वेतदधि- करणमष्टसूत्रमाहुः । तदप्येतेनैव दूषितम् ॥ ४ ॥ इति प्रथमं सर्वत्र प्रसिद्ध