अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 563, कुल 2600 में से
संदर्भ में पढ़ें४७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० २ अ० १ सू० ६ ततो ब्रह्मविचारे तान्यप्युदाहृत्य चिन्त्यन्ते । पुनश्च भगवाँस्तदधिकारेण ब्रह्मविद्यां निरूप्य स्वकृपालुतया, सर्वगुह्यतममित्यादिना भक्तिप्रपत्ती एवोक्त- वान् । अतोऽङ्गत्वेन पूर्वं सर्वनिर्णया उक्ता इत्यध्यवसेयम् । तथैवार्जुनविज्ञानात्, भाष्यप्रकाशः। रूपभेदस्य शीघ्रं बुद्धावारोहान्मर्यादाप्रतिपादकं वेदवदक्षरात्मकं रूपं वेदार्थं तत्तात्पर्यं च स्मृत्वा तत उत्तमोऽपि भगवाँस्तत्सदृशवाक्यान्युक्तवानतः स्मृतिरूपत्वं तेषामुपपन्नमिति । एवं स्वरूपं विचार्योपन्यासप्रयोजनमाहुः तत इत्यादि । वेदान्तार्थनिश्चायकत्वात् तद्विचारोऽपि युक्त एवेति तान्यपि चिन्त्यन्त इत्यर्थः । नन्वेकार्थत्वं सामानाधिकरण्यप्रयोजकम् । तच्चिह न दृश्यते । वेदे मुख्यतया ज्ञानविज्ञानयोस्तत्र च तथा भक्तिप्रपत्त्योः प्रतिपादनेनार्थभेदादित्यत आहुः पुनरित्यादि । तदधिकारेणेति भक्तिघटितेनाधिकारेण । तथाचाधिकारभेदस्य वेदेऽपि रश्मिः। वेदार्थमिति सरस्वतीमाविवासेमधीतिमिरिति श्रुत्युक्ताधीतिभिर्विविधोपचारैः सरस्वतीं परिचरेमेति दुर्गाचार्या निरुक्तटीकायां वेदार्थमाहुः वेदार्थः सुपर्णारूढः । सुपर्णः काल इति तृतीयसुबोधिन्यामस्ति तर्हि वेदे गूढे भक्तिप्रपत्ती अत्र स्मृतिषु स्फुटे कुत उच्येते अत आहुस्तात्पर्यं चेति । ततः ऋषिम्य उत्तमः । तादृशानि स्मृतिरूपाणि 'स्मरणात्स्मृतिरुच्यते' इति वाक्यात् स्मृतिरूपत्वम् । वेदान्तेति । ननु किं प्रकारकः क्रतुरत्र निश्चितेषु ऋतुषु हिरण्मयविषयको हृदि कार्य इत्यत आहुः वेदान्तेति । तदुक्तं वेदेषु संदेहे गीता निर्णायिका इति । वेदाः श्रीकृष्णवाक्यानीत्यस्य निबन्धस्य टीकायाम् । तानीति प्रसङ्गात्सर्वापि गीता चिन्त्यते इति बहुवचनान्तानीति । सर्वे क्रतवो निश्चिताः परं खमेते यः स वक्ष्यतेऽत्रैवाग्रे । एकार्थत्वं वेदान्तगीतयोः । सामानाधिकरण्यं भिन्नप्रवृत्तिनिमित्तत्वे सति एकार्थबोधकत्वं तस्य प्रयोजकं पर्यायत्वं कारणम् । इहेति वेदान्तगीतयोः । वेद इति क्रिया- प्रतिपादनेपि वेदे 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति' इति श्रुत्या ज्ञानेच्छोत्पादनान्न मुख्यत- या प्रतिपादनं किं तु ज्ञानस्य सत्यं ज्ञानमिति श्रुतेस्तदपि तद्विषयकं तरति शोकमात्मविदिति सर्वा- त्मभावप्रकरणे छान्दोग्यश्रुतेः अभेदज्ञानं च 'तत्त्वमसि' इति श्रुतेः माहात्म्यज्ञानं च 'यतो वा इमानि भूतानि जायन्ते' इति श्रुतेर्भक्तनिष्ठं च । विज्ञानस्य 'सत्यं विज्ञानमानन्दं ब्रह्म' इति श्रुतेर्मु- ख्यतया प्रतिपादनं विज्ञानं जीवोपि 'विज्ञानं यज्ञं तनुते' इति श्रुतेः । अत्र गीतायां सप्तमेऽध्याये ज्ञानविज्ञानाख्ये 'भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत्' ॥ इत्यत्र प्रकृतिद्वयज्ञानं विज्ञानपदवाच्यम् । ज्ञानं तु 'अहं कृत्स्नस्य जगतः' इत्याद्युक्तं ज्ञानि- भक्तनिष्ठम् । 'तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते' इति वाक्याद् भगवद्विषयकम् । अत्रैवाग्रे 'चतुर्विधा भजन्ते माम्' इत्यादिना भक्तिः । 'बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः' ॥ 472