भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 570, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 570

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४७९ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥ बाधकमाशङ्क्य परिहरति । यदि सर्वेषां हृदये भगवाञ्जीववत् तिष्ठेत् तदा जीवस्येव तस्यापि सुखदुःखसाक्षात्कारस्तत्साधनादिपरिग्रहश्च प्राप्नोतीति चेन्न । वैशेष्यात् । विशेषस्य भावो वैशेष्यं तस्मात् । सर्वरूपत्वमानन्दरूपत्वं स्वकर्तृत्वं विशेषः । तद्भावो ब्रह्मणि वर्तते, न जीवे इति जीवस्यैव भोगो, न ब्रह्मण इति । वैशेष्यपदादयमर्थः सूचितः । अपेक्षित एव भोगो, नानपेक्षित इति । न तु तस्य भाष्यप्रकाशः । संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥ बाधकमिति जीवतुल्यतापत्तिरूपं बाधकम् । सम्यग् अभिनिवेशेन भोगः संभोगः, सम्यग्भोगो यस्मादिति वा संभोगः । तयोः प्राप्तिर्जीवतौल्यमापादयतीति तदाशङ्क्य परिहरतीत्यर्थः । अग्रिमाधिकरणविरोधादिति । अग्रिमाधिकरणत्रयविषयवाक्येषु भोगप्रतिपादनात् तदनङ्गीकारे तद्विरोधादित्यर्थः। बहुव्रीहिविग्रह मङ्गीकृत्याहुः तत्साधनादिपरिग्रहश्चेति । अपेक्षित एवेत्यादिनियमे दृष्टान्तमुखेन मानमाहुः रश्मिः । पवित्रयुक्तत्वेन ब्रह्मधर्मस्य वैलक्षण्यं सिद्धान्ते । एतादृशवाक्यान्तरे तूपपत्तावुपक्रमस्यापि सत्त्वा- द्ब्रह्मधर्मस्य वैलक्षण्यम् । पूर्वपक्षे 'अथ य एषोन्तरादित्ये हिरण्मयः पुरुषः' ब्रह्मशरीरं पूर्वाधिकरणे । अत्राधिकरण उपक्रमेण जीवस्यैवाङ्गुष्ठमात्रस्यान्तर्हृदये प्रतिपादकमिदं वचनमित्युपपत्तिः । अतो जीवप्रतिपादकमेवेदं वाक्यमिति वैलक्षण्यम् । एतादृशवाक्यान्तरे तु पूर्वपक्षे त्रयीशरीरादित्यस्यो- भिमानो जीवो हिरण्मयः पुरुष इत्युपपत्तिः । अभिमानिप्रतिपादकमिति वैलक्षण्यम् । न च शरीरस्य चान्तस्तदभिमान्येव युक्त इति अर्भकौकस्त्वसूत्राशङ्काग्रन्थो न शब्दविशेषादिति सूत्रे पूर्वपक्षग्रन्थ इति चेन्न शब्दविशेषसूत्रपूर्वपक्षग्रन्थस्यार्भकौकस्त्वसूत्रोक्तशङ्काग्रन्थेनुवादाङ्गीकारादतिरिक्तपूर्वपक्षाङ्गीकारे गौरवात् । तथाच भाष्यं पूर्वपक्षसिद्धान्तयोरित्यर्भकौकस्त्वसूत्रस्य । न चाधिकरणयोर्विषयवाक्या- वधारणे विनिगमनाविरह इति वाच्यम् । पूर्वाधिकरणेन्तःपदात् तद्घटितश्रुतेर्द्वागुपस्थितेरय य एषोन्तरादित्य इत्यस्याः श्रुतेर्विषयवाक्यत्वावधारणं शब्दविशेषादित्यधिकरणे तु अन्तःपदाभावा- दपहतपाप्मपदघटितश्रुतेः पूर्वाधिकरण एव गतत्वात् हिरण्मयशब्दविशेषघटितश्रुतेरवधारणम् ॥ ७ ॥ संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥ तत्साधनेत्यादि । वक्ष्यमाणभाष्या- दाहुः सम्यग्भोग इति । वेति विकल्पे । सुखदुःखसाक्षात्कारस्तत्साधनादिपरिग्रहश्चेति भाष्यात् । भाष्ये चकारः पुनरर्थे न तु समुच्चये । तत्साधनेति सुखदुःखसाधनानि चक्षुरादीनि आदि- पदेन तद्विषयाश्च तेषां तत्साधनत्वेन परिग्रहः । व्यापकस्येन्द्रियसंबन्धसत्त्वात् । तथा चानभिनि- र्वेशवादः । भाष्ये । विशेष इति सर्वरूपत्वं सर्वानुकारित्वेन सर्वेषु रूपाण्यस्येति स्वमात्मा तस्य कर्तृत्वं 'स आत्मानं स्वयमकुरुत' इति श्रुतेः तस्य भावः सत्ता स ब्रह्मणि वर्तते अन्यथा सर्वेषु रूपाणि न स्युः आनन्दाश्च सर्वेषु न भवेयुः सर्वाणि रूपाणि न स्युः 'योऽन्यथा सन्तमात्मानमन्यथा प्रति- पद्यते' इति श्रुतेः । 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुतेः जीवासक्त्यकिं- चित्त्वात् । न च विशेषादित्येव सूत्रे हेतुरस्तु सत्ताभावे 'नासतो विद्यते भावः' इति स्मृतेः । कार्यरूपाणि कार्यानन्दाः कार्यं च न स्यात् । अत एव कार्ये व्यष्टौ न व्याख्यातः न च ६१ ब्र० सू० २० 479