अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 597, कुल 2600 में से
संदर्भ में पढ़ें५०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ४ सू० ११ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥ ( १-२-४ ) तस्यैवाग्रे पठ्यते । 'ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेता' ॥ इति । भाष्यप्रकाशः । गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥११॥ अयं भोगो व्यापिवैकुण्ठे अन्यत्र वाऽस्तु, रश्मिः । त्रिगुणं भुङ्क्ते इति यो हैवं वेद संन्यासी च योगी चात्मयाजी चेति । अर्थस्तु यथा देवानां मध्येऽग्निरन्नादोऽन्नस्य प्रसिद्धः सोमोऽन्नमदनीयमग्निनैवान्नमन्नादेन सहभूतमदनीयमिति सिद्धं श्रुत्यन्तरे । अथ यत्किंचेदमार्द्रं तद्रेतसोऽसृजत तद्रसः सोमः एतावद्वा इदमन्नं चैवान्नाद