अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 601, कुल 2600 में से
संदर्भ में पढ़ें५१० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ४ सू० ११ संदेहवारकं शास्त्रं पदशक्त्या तु निर्णयः । जीवाद्युत्कर्षशब्देन द्वयोर्वाक्येऽपि न क्षतिः ॥ गुहातपशब्दाभ्यामित्यर्थः । ऋतं पिबन्तावित्यत्रैवं संशयः । किं जीवद्वयं निरूपयति, आहोखिज्जीवब्रह्मणी वेति । तत्र ब्रह्मप्रकरणस्य सामान्यत्वाद्, भाष्यप्रकाशः। कार्यः । अन्यथा तु समाधानमनर्थकमेव स्यात् । नचोक्तयोरुभयोरपि संदिग्धत्वात् केन स निर्णय इति शङ्क्यम् । पदशक्त्या तु निर्णयः । संदेहाकारस्य । कस्य पदस्य शक्त्येति चेत् । जीवाद्युत्कर्षशब्देन । जीवं प्राप्य उत्कर्षबोधको यः शब्दस्तेन । वाक्ये द्वयोः पक्षयोर्न क्षतिः । तथाच तादृशपदस्य शक्त्या जीवद्वयपक्षो जीवपरमात्मपक्षश्चेति द्वावपि संगृहीतुं शक्येते इत्यर्थः । जीवाद्युत्कर्षशब्दः को वेत्यपेक्षायां व्याकुर्वन्ति गुहेत्यादि । इदं पूर्वोत्तरपक्षयोर्विवरण एव स्फुटी- भविष्यति । ननु, यः सेतुरीजानानामिति मन्त्रस्यापि प्रकरणद्वयमध्ये पाठोऽस्तीति स कुतो न विचार्यत इत्यत आहुः ऋतमित्यादि । तथाच तत्राक्षरं ब्रह्म स्फुटमेव श्रूयते इति संदेहा- भावात् स न विचार्यते, किंतुत्रैवैवं संशयादयमेव विचार्यत इत्यर्थः । एवं संशयं साधयित्वा पूर्वपक्षमाहुः तत्रेत्यादि । अयमर्थः । यद्यस्मिन् मन्त्रे ब्रह्मैव प्रतिपाद्यं भवेत् तदा पूर्ववद्यामि- रश्मिः। स्यात् । पूर्वपक्षोत्थानद्वारा संदेहान्तरस्य समाधानान्तरप्रवृत्तिजनकत्वात् । उक्तयोरिति अर्थ- प्रकरणयोः । स इति निर्णयविषयीभूतसिद्धान्तः । पदेति पदानां गुहात्मपदानाम् । शक्त्या अभिधावृत्त्या तात्पर्यवृत्त्या च सिद्धान्तस्य निर्णय इति । कारिकार्थोपि कस्य निर्णय इत्याकाङ्क्षायामाहुः संदेहाकारस्येति । संदेहस्याकारो यस्मै सिद्धान्ताय स तथोक्तः सिद्धान्तस्येत्यर्थः । कस्येति जीवनिरूपणं सूत्रे कुतः ब्रह्मविचारस्य प्रतिज्ञानात् यदि स्वस्माद्ब्रह्मोत्कर्षार्थं तर्हि कस्य पदस्य शक्त्या जीवनिरूपणमिति प्रश्नः । जीवं प्राप्येति जीवादित्यत्र ल्यब्लोपे पञ्चमी व्याकृता । तथाच जीवाद् ब्रह्मोत्कर्षशब्देनातपशब्देन कृत्वा छायापदशक्त्या वाक्ये श्रुतिवाक्ये जीवनिरूपणं सूत्रे त्वात्मा चात्मा चात्मानावित्येकस्मात्पदस्य शक्त्या जीवनिरूपणम् । अतः पक्षयोः जीवद्वयजीवपरमात्मद्वयरूप- योरेकतरयोर्द्वयोर्जीवपरमात्मनोर्न क्षतिः ब्रह्मनिरूपणीयेपि जीवनिरूपणस्य नासंगतिरित्यर्थः । तथा- चेति । तादृशपदमात्मच्छायापदम् । तस्य शक्त्या जीवद्वयपक्षपरमात्मपक्षश्चेत्येतयोः एकतरौ द्वौ जीव- परमात्मानौ अप्येवकारार्थः । तावेव संगृहीतुं शक्येते इत्यर्थः । जीवादिति छायात्मपदे जीवशब्दो जीवाद्युत्कर्षशब्दः को वेत्यपेक्षायामित्यर्थः । गुहेत्यादीति गुहाशब्द उत्कर्षबोधक एव । जीवादिष्ठ- ङ्गानि च ब्रह्म तु गुहां प्रविष्ट इत्युत्कर्षः । सह्यातपशब्दस्योत्कर्षबोधकत्वम् । गुहाशब्देनातपशब्देन चेति भाष्यार्थः । कारिकायामुत्कर्षशब्देनेत्येकवचनात् । संशयनिरूपणं तु त्वाधुना भविष्यति । अतः संदेहपरत्वेन न प्रकाशो व्याख्यातः सिद्धान्तपरत्वेन तु व्याख्यातः । संदेहाकारस्येत्यत्र संदेहहेतोस्त्वेव वदेयुः । सिद्धान्तपक्षे तु शत्राकारपदं सार्थकम् । न च सिद्धान्तस्येति संदेहाकारस्येत्यत्र वदेयुर्यदि सिद्धान्तपक्षोभिप्रेयादिति शङ्क्यम् । कारिकायां संदेहवारकमित्यनेन संदेहपुरस्कारेण सिद्धान्तोक्तेः । एतेन सिद्धान्तपदाभावात्कारिकायां संदेहपदश्रवणात् संदेहपरत्वेन व्याख्यानं युक्तमिति प्रत्युक्तम् । एव स्फुटीति । अस्योपपादनसापेक्षत्वात् एवकारः । अन्यत्र नेत्यन्ययोगव्यवच्छेदकः । तथा चैष कारिकार्थः । ननु जीवपरमात्मनिरूपणेऽर्थप्रकरणयोः संदिग्धत्वेन विचारकरणाभाव इति चेत्त- त्राहुः संदेहवारकं शास्त्रमिति । सूत्रजातं संदेहस्य श्रुतिष्वधिकरणान्तर्गतस्य वारकं पूर्वपक्षोप-