अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 613, कुल 2600 में से
संदर्भ में पढ़ेंसत्त्वं सोपाधिकं चैतन्यमित्येवमुक्तं व्याख्यायाथ योऽयमित्यादिना मुक्तं व्याकरोतीत्यमुक्त- जीवौयभोगस्य मुक्ताभोगस्य च सिद्धेस्तदभावादिति । न चैकस्मिञ्छरीरे जीवद्वयनिवेशस्यासंगत- त्वाच्चायं श्रुत्यर्थ इति शङ्क्यम् । अत्र, समानं वृक्षमिति समानपदस्य तुल्यवाचकत्या शरीर- भेदस्यैवाभिप्रेतत्वेनोक्तदोषाभावात् । नचैवं जीवानां बहुत्वेन, द्वा इत्यादिद्वित्वसंख्याविरोधः । प्रकारपरत्वेनाविरोधात् । सयुक्तस्य त्वेककालावच्छिन्नप्रवेशत्वेनाप्युपपत्तेः । सखित्वस्य चाक्ष्णवन्तः कर्णवन्तः सखाय इतिवत् सारूप्येणेति । अतो, नैव किंचित् करोमीतिन्यायेन स्थातव्यमित्यु- पदेशार्थेदं पैङ्गिरहस्यव्याख्यानम् । न ह वा एवंविदीति फलवाक्येन तथा निर्णयात् । नचैवं पैङ्ग्यव्याख्यानुरोधेन मुण्डकाद्युक्तैतन्मन्त्रेऽप्ययमेवार्थोऽस्तु, न तु जीवब्रह्मपर इति शङ्क्यम् । तत्र प्रकरणस्य ब्राह्मत्वेन ब्रह्मणः प्रतिक्षेपानर्हत्वात् । 'अतो ह्यात्मान्तेषूभौ ह्यात्मानस्वार्थवत्त्वात्' इति सत्त्वम् । मायया मायोपादानं सत्त्वं मायिकमिति मायोपाधिकं चैतन्यं सत्त्वमित्येवमुपाधिविशिष्टत्वेन देहाध्यासेन चामुक्तं व्याख्यायेत्यर्थः । मुक्तमिति न च शारीरपदादमुक्तत्वं शङ्क्यम् । उपद्रष्टेत्युप- पदात् क्षेत्रज्ञपदाच्चाध्यासातिरिक्तशरीरसंबन्धस्य स्फोरणात् । उपपदेन शरीरस्य उप समीपे द्रष्टा ज्ञाता अध्याससहित इत्यर्थात् 'क्षेत्रज्ञं चापि मां विद्धि' इति गीतातोप्यध्यासाभावो ज्ञेयः । शरीरपदं जीवन्मुक्त- ताया ज्ञापकम् । अयमिति मुक्तामुक्तरूपः । शरीरेति दात्रेण तुल्यं छिनत्तीति दात्रवत्क्षुरश्छिनत्तीत्यत्र दात्रक्षुरयोर्भेदा यथा तथा शरीरान्तरेण समानं तुल्यं वृक्षं शरीरम् । प्रकारेति द्वा इत्यत्र द्वित्वसंख्या तस्याः प्रकारौ मुक्तामुक्तत्वे तत्परत्वं द्वित्वावच्छिन्ने ये मुक्तामुक्तत्वे तदवच्छिन्नौ सुपर्णासुपर्णावित्यर्थः । सयुजेत्यत्रोपपत्तिमाहुः सयुक्तस्येति । युनक्तीति युक् सहयुक् सयुक् तस्य भावस्तत्त्वं तस्य त्वेकेन कालेनावच्छिन्नः प्रवेशो ययोः तावेककालावच्छिन्नप्रवेशौ मुक्तामुक्तजीवौ तयोर्भावस्तत्त्वं तेनाप्युप- पत्तेः । मुक्तस्य ब्रह्माण्डकोट्याश्रयत्वेनामुक्तस्याणोः संपर्कस्योपपत्तेः । सखाया इत्यत्र तामाहुः सखित्वस्येति समानशीलव्यसनवत्त्वं सखित्वं अक्षण्वन्त इत्यत्राक्षिकर्णवत्त्वेन सारूप्यं सखित्वं तदत्र संभवति तयोः शरीरवत्त्वेन सारूप्यात् समानशीलव्यसनवत्त्वं तु नास्ति मुक्तामुक्तत्वाभ्यां महावैलक्षण्यात् । अतो नैवेति गीतावाक्यमिदं मुक्तवदमुक्तेन स्थातव्यमित्युपदेशाय मुक्तामुक्तयो- रैकत्र निरूपणम् । कर्ता कारयिता हरिरिति । न ह वा इति मुक्तमात्रविषयोयं हेतुः व्याख्यातया । 'ब्रह्मविदामोति परं तदेषाम्युक्ता सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादिना श्लोकव्याख्यानं तद्वत्पैङ्गिरहस्यं व्याख्यायाथ शङ्किरे न चेत्यादि । मुण्डकेति आदिपदेन श्वेताश्वतरोपनिषत् । अयमेवेति । बद्ध- मुक्तरूपः । अत्ता चराचराधिकरणे प्रकरणादप्यत्तृत्वं परमात्मनः साधितं तत्प्रकरणमत्राधिकरणे चकारेण [