अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 62, कुल 2600 में से
संदर्भ में पढ़ेंन प्राकृतः । नापि परमाणुजन्यः। नापि विवर्त्तात्मा । नाप्यदृष्टादिद्वारा जातः । नाप्यसतः सत्तारूपः । किन्तु भगवत्कार्यः । परमकाष्ठापन्न वस्तु कृतिसाध्यः ।" अतः शुद्धस्यैव ब्रह्मणः जगतः कारणत्वमिति सिद्धान्तः। ननु शुद्धब्रह्मणः "निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्" "इन्द्रोमायाभिः पुरुरूप ईयते" "वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" "अथात आदेशो नेति नेति" इत्यादिभिः प्रमाणैः निर्विशेषत्वेन श्रुतिषु प्रतिपादनात् शुद्धब्रह्मणः जगत्कारणत्वं न संगच्छते । शुद्धब्रह्मणः जगत्कर्तृत्वस्वीकारे तु तस्य सगुणता स्यादतो विवर्तवादमतमवलम्ब्य सविशेषश्रुतीनां निर्वाह उपजीव्यत्वन्यायेन कर्तव्यः तेन ब्रह्मणि वास्तवं कर्तृत्वं न स्यात् सविशेष श्रुतीनां वैय्यर्थ्यमपि न स्यादिति । एवम् उपनिषत्सु सविशेषश्रुतीनां निर्विशेषश्रुत्युपजीव्यत्वन्यायेन ग्रहणम्। श्रुतिर्हि शब्दः। निर्धर्मकस्य तस्य ब्रह्मणश्च शब्देन निरूपणमशक्यम् । तत्र च धर्मभावात्तन्निरूपणमभावमुखेन क्रियते श्रुतिषु । पूर्वं धर्मान्निरूप्य ततः अस्थूलादि वाक्यैर्धर्मान्निषेधति श्रुतिः। अभावस्य प्रतियोगिनिरूपणाधीननिरूपणत्वात्। एवं प्रथमं "द्वे वाव ब्रह्मणो रूपे मूर्त्तं चैवामूर्त्तं च" इति विशेषं निरूप्य ततः "अथात आदेशो नेति नेति" इति निषेधति । अत्र ब्रह्मणि श्रुतिभिः कल्पितानां विशेषाणां शुक्तिरजतवदविद्याकल्पितत्वात्तव मते तु (मायावादिमते तु) सृष्टिनिरूपकाणि वाक्यान्यसंगतानि स्युरिति । अत्र मायावादी कथयति - नन्वस्ति अध्यारोपापवदलक्षणा संगतिः। शुद्धब्रह्मणः दुर्ज्ञेयत्वेन तज्ज्ञापनाय जगज्जन्मादिकं प्रतिपाद्य उपासना द्वारा औपाधिके ब्रह्मणि बुद्धौ सिद्धायां शाखाऽरुन्धतीन्यायेन पूर्वपूर्वश्रुत्यनुभवबाधःसानामुत्तरोत्तरनिर्विशेषश्रुत्यनुभवबलात्तत्तन्निराकरणपूर्वकसूक्ष्मातिसूक्ष्म- तुरीयचैतन्यस्वरूपावबोधनेन पूर्वोक्तं मायिकमपोह्य निर्विशेषं ब्रह्म पश्चाद्बोध्यते स एवात्माऽद्वितीय एकः उपाधिना बहुधा भासते । एवमौपाधिकस्यैव ब्रह्मणः जगतः कारणत्वं नान्यस्येति । जगतः मायाकार्यत्वात् कार्यस्य तुच्छत्वेन तत्कारणेनाऽपि तुच्छत्वेन भाव्यम् । कारणसजातीयत्वात्कार्यस्येति चेन्मैवम् - अभेदादनुपाधित्वाज्जगदप्रत्ययाप्तितः । सर्वाधारत्वतस्तावच्छक्तित्वाञ्चास्य बाधनम् ।। (विद्व. ३. का.) अत्र अभेदादिति । सविशेषनिर्विशेषयोर्भेदाभावादिति। अनुपाधित्वादिति। ब्रह्मणः उपाधिरेव नास्तीत्यर्थः। सर्वाधारत्वतः। सर्वविरुद्धधर्माश्रयत्वादिति । तथा च सविशेषनिर्विशेषश्रुतिवाक्ययोः श्रुतित्वाविशेषात्रैकतरबाधो युक्तः अप्रामाण्यापत्तेः। तथा हि । ब्रह्म श्रुत्येक समधिगम्यं न तु प्रमाणान्तरगम्यम् । सिद्धान्ते च सर्वासां श्रुतीनामविकलं प्रामाण्यम् । "ब्रह्म पुनर्यादृशं वेदान्तेष्ववगतं तादृशमेव मन्तव्यं, अणुमात्रमन्यथा कल्पनेऽपि दोषः स्यात्" इत्याचार्यवचनात् । "योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते किं तेन न xlix