अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 624, कुल 2600 में से
संदर्भ में पढ़ें'चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयति । एष देवपथो ब्रह्मपथ एतेनेन प्रतिपद्यमाना इमं मानवमावर्त्तं नावर्त्तन्ते' इति ब्रह्मविदोऽप्येष एव मार्गः पुनरावृत्तिरहितः । चकारस्तूक्तसमुच्चयेनाधिकरणपूर्णत्वबोधकः ॥१६॥ भाष्यप्रकाशः । क्वापि तेषामक्षिपुरुषविदां न परलोके फलवैषम्यमित्युक्त्वा विद्यावतां गमनप्रकारं वदति अर्चिष- मित्यादिना अमानव इति । मनुकृतसृष्टावनुत्पन्नः । मनवश्च शिवपर्यन्ता बोध्याः । 'सलोकपाला मुनयो मनुनामार्य मनुं प्राञ्जलयः प्रणेमुः' इति चतुर्थस्कन्धे मैत्रेयेण महादेवेऽपि मनुपदप्रयो- गात् । तेन भगवतो दूत इत्यर्थः । देवपथ इति देवैर्गमयितृभिरुपलक्षितो मार्गः । ब्रह्मपथ इति । ब्रह्मणः प्राप्यस्य परस्य संबन्धी मार्गः । आवर्तमिति । आवृत्तिसाधनभूतमार्गम् । [L10