अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 626, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५३५ रस्थिरत्वात् । उपदेशकवाक्यत्वादुपदेष्टुरेव चक्षुर्गतं भवेत् । तथाच वक्तुर्दश- नाभावान्नासत्त्वम् । द्रष्टुरपगमे वापगच्छति सद्वितीये तु सद्वितीयः । उपासनाकाले च सुतरामनवस्थितिः । सद्वितीयोपासनायामपि श्रवणमननयो- भाष्यप्रकाशः । उपदिश्यते, परचक्षुर्गतो वा । आद्ये वक्तुरनाप्तत्वादस्थिरत्वम् । द्वितीये तु द्रष्टरि पश्यत्येव प्रतिबिम्बात् तदपगमे प्रतिबिम्बस्याप्यपगमादस्थिरत्वम् । द्रष्टरि सद्वितीये तस्य सद्वितीयत्वादे- कत्वोपदेशस्य विरोधादस्थिरत्वम् । उपासनाकाले च चित्तस्य स्थैर्याय नेत्रनिमीलने प्रतिबिम्बा- भावादाप्यासस्याभावादुपासनायाः सुतरामस्थिरत्वम् । यदि च द्वितीयं विना तदसंभवात् पत्नीद्वितीयस्य यागादिवत् सद्वितीयस्यैवोपासनाऽत्रोपगम्यते, तदा तु वाक्यश्रवणकाले श्रोतूरे- कत्वादुपासनाकाले चान्यसापेक्षत्वाच्छ्रवणमननयोः प्रकारभेदेन भिन्नविषयत्वात् प्रमीयमाणा- रश्मिः । इति । वाक्येति विषयवाक्यार्थत्वेन । वक्तुरिति स्वचक्षुर्गतस्य स्वेनादर्शनात् यथार्थार्थ- वादित्वाभावेनानाप्तत्वादित्यर्थः । यदि च दर्पणादिना स्वचक्षुर्गतं पश्यन्नुपदिशतीति कल्प्यते तदा तु दर्पणायप्रयोज्यदर्शने मनोभावे मन्तुर्दर्शनाभावान्नासत्वादस्थिरत्वमित्यपि द्रष्टव्यम् । अन्यत्रमना अभूवं नापश्यमन्यत्रमना अभूवं नाश्रौषमिति । भाष्यार्थस्तु अवस्थितिः स्थिरस्य धर्मोऽनवस्थिति- रस्थिरधर्मस्तदाहुः अस्थिरत्वादिति । अनाप्तत्वमिति ततो व्यवहिते हेतोरस्थिरत्वमिति शेषः । अस्थि- रत्वादितरो नात्र वाक्यार्थः इति । तथा च वस्तुनो य एषोऽक्षिणि पुरुष इति वाक्येन प्रतिपन्नस्य प्रतिबिम्बत्वेनोपादानेऽनाप्तोक्तत्वात् य एष इति वाक्यस्याप्रामाण्यापत्तिरिति भावः । अप्रमाणवाक्य- प्रतिपन्नस्य सदा विचारकोपासकहृद्यस्थिरत्वम् । विचारकर्तृदि अप्रामाणिकोक्तं न तिष्ठत्यनधिकारादिति । द्रष्टुरिति भाष्यं विवरामासुः द्वितीये त्विति । अस्थिरत्वमिति सदोपासनाऽविषयत्वमित्यर्थः । अस्थिरस्योपासना सदा न भवतीति भावः । तस्येति प्रतिबिम्बस्य । एकत्वेति पुरुषो दृश्यत इत्यत्रैकत्वस्य विवक्षितत्वादिति भावः । एतद्विरोधादस्थिरत्वं पूर्ववत् । उपासनेतिभाष्यं विवरांबभूवुः उपासनेति । अस्थिरत्वमिति सदोपासनाविषयत्वम् । सद्वितीयेति भाष्यं विवरांचक्रुः यदि चेति । अन्येति श्रोतुर्भार्यादिसापेक्षत्वात् प्रकारावेकत्वं द्वित्वं च तयोर्भेदेन भिन्नविषयत्वाद्येकविषयत्वात् । यथा प्रमीयमानाडुष्ठीयमानौ धर्मौ भावार्थपादभाष्ये निरूपितौ तद्वदुपासनायामाहुः प्रमीयमाणेति । वेदान्तेष्वपि मन्त्रब्राह्मणयोः सत्त्वम् । 'आनन्दमयमात्मा मे शुद्ध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा' इति महानारायणोपनिषच्छ्रुत्यां विरजाहोमरूपप्रयोगकरणत्वेन 'प्रयोगकरणभूतः शब्दो मन्त्रः' इति लक्षणकत्वात् मन्त्रत्वम् । एतदतिरिक्तस्य ब्रह्मविदाप्नोति परमित्यस्य प्रयोगकरणशब्दत्वाभावेन 'शेषे ब्राह्मणशब्दः' इति लक्षणकत्वाद् ब्राह्मणत्वम् । अतः प्रमीयमाणानुष्ठीयमाना चोपासना तयोरथ- स्त्रयोः सप्तमीद्विवचनान्तम् । एकविषये द्विविषया नास्ति द्विविषये एकविषयोपासना नास्ति इति वैरूप्यं ततोनवस्थितिमलत्वम् । न च 'य एषोऽक्षिणि पुरुषो दृश्यते' इति श्रुतिवाक्यस्य मन्त्रत्वं ब्राह्मणत्वं वेति संकर इति शङ्क्यम् । 'यत्र ब्राह्मणानां मन्त्र इति समाख्या स मन्त्रः' इति लक्षणादरेण मन्त्र इति व्यवहाराधीनाखण्डोपाधिरूपमन्त्रत्वाभ्युपगमेन संकराभावात् । ब्राह्मणानां व्यवहारमनतिक्रम्य श्रुतिवाक्ये ६८ ब्र० सू० २० 535