अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 64, कुल 2600 में से
संदर्भ में पढ़ेंतथा चात्र मायावादी प्रष्टव्यः। यद्भवताऽत्र एतादृशी मायिकी कार्यकारणादि व्यवस्था कुत्रतः कृता, यदि श्रुतितः तर्हि तु “अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः” इत्यादिः “यो ब्रह्माणं विदधाति पूर्वं” “यो वै वेदांश्च प्रहिणोति तस्मै, वेदो नारायणः साक्षात् स्वयम्भूरिति शुश्रुम” “वेदैश्च सर्वैरहमेव वेद्यः” इत्यादि श्रुतिस्मृतिभ्यां वेदः किमु स्वस्यैवाज्ञानकल्पितत्वं वदति ?। तथा च तन्मतानुसारेण तु प्रथमं वेदानां पारमार्थिकसत्त्वं ज्ञात्वा तदनन्तरञ्च श्रुत्यादीनामौदासीन्येन सम्यगध्ययनेन च श्रुतेः श्रुतित एवाज्ञानकल्पितत्वं श्रुत्वा गुरूपदेशादिकैः “न माता पिता वा न देवा न लोका न वेदा” तथा च “न शास्ता न शास्त्रं न शिष्यो न शिक्षा” इत्यादि प्रमाणैः असत्तुल्यैः परमार्थरूपं ब्रह्मज्ञानं कथं फलिष्यतीति विचार्य न कोऽपि प्रवर्तेत । अप्रवर्तनेन च वेदमार्गोच्छेदापत्तिः। अतः समग्रवेदस्य प्रामाण्यमविशेषेणैव ग्राह्यम् । वस्तुतस्तु ब्रह्मणोऽलौकिकत्वादचिन्त्यैश्वर्य- त्वाच्छ्रुत्येकसमधिगम्यत्वाच्च विशेषतो लोकयुक्तीनां तत्राप्रवेश एवेत्युक्तम् । तस्माच्छुद्धं ब्रह्मैव जगन्निमित्तसमवायिकारणमिति सिद्धम् । सिद्धान्तस्तु - उत्पत्तिस्थितिनाशानां जगतः कर्तृ वै बृहत् । वेदेनबोधितं तद्धि नान्यथा भवितुं क्षमम् ।। (अ.भा.का. १।२।) ।। सिद्धान्ते जगत्संसारयोर्भेदः ।। सिद्धान्ते प्रपञ्चः - जगद् भिन्नः, अहंताममतात्मकः संसारः भिन्नः। अयं सूक्ष्मभेदः केनाप्याचार्यैः न कृतः। एतयोः पृथक्त्वं श्रीवल्लभाचार्यचरणैरेव श्रुतिस्मृतिसूत्रभागवतवाक्यानां समन्वयेन शास्त्रीययुक्त्योपपाद्य प्रकटीकृतम्। जगत्संसारयोः लक्षणम् पृथक् । भगवदिच्छया चिदानन्दांशतिरोभावेन सदंशादाविर्भावितं यत्तज्जगदिति कथ्यते शास्त्रेषु । अविद्यया जीवेन कल्पितोऽहंताममातात्मकः यः सः संसार इति उच्यते शास्त्रेषु । अस्या अविद्यायाः पञ्चपर्वाणि— स्वरूपाज्ञानमेकं हि पर्व देहेन्द्रियासवः । अन्तःकरणमेषां हि चतुर्द्धाऽध्यास उच्यते । पंचपर्वा त्वविद्येयं यद्बद्धो याति संसृतिम् ।। (शा.प्र.का. ३६) इत्याचार्यवचनात् — स्वरूपज्ञानं, देहाध्यासः, इन्द्रियाध्यासः, प्राणाध्यासः अन्तःकरणाध्यासश्चेति पञ्चपर्वाणि । अनयाऽविद्यया बद्धो जीवः संसृतिं नाम संसारं प्राप्नोति । अतः संसृतेः अविद्याकल्पितत्वाज्ज्ञानेन नाशः। ब्रह्मरूपत्वाज्जगतस्तु न नाशः। ननु द्वैतमाविद्यकं मिथ्या इति चेन्न । “स एकाकी न रमते स द्वितीयमैच्छत्” “तदात्मानं स्वयमकुरुत” इत्यादिश्रुतेः द्वैतं नाविद्यकं, ब्रह्मेच्छया उद्भूतत्वात्, किन्तु द्वैतज्ञानमा- विद्यकम् । अनेन द्वैतज्ञानेन जीव एव बध्यते न तु ब्रह्म । अत्र अविद्यायाः ब्रह्मगतत्वं न सम्भवति । तत्र प्रथमन्तु मायावादे उपाध्युपाधेययोरविद्याब्रह्मणोर्द्वयोरनादित्वेन तयोर्मध्ये