अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 659, कुल 2600 में से
संदर्भ में पढ़ें५६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ७ सू० २२ पुरुषस्य । न हि दिव्यत्वादयो गुणाः पुरुषस्य भवन्ति । न हि तन्मते पुरुषभेदो ह्यङ्गीक्रियते जीवब्रह्मवत् । नच तस्य बाह्याभ्यन्तरत्वम् । सर्वत्वाभावात् । न हि तस्माज्जायते प्राणादिः । तस्मात् पुरुषविशेषणान्यपि न सांख्यपुरुषविशेषणानि । अतो विशेषणभेदः । व्यपदेशभेदश्च । ब्रह्मविद्यैवैषेति । स ब्रह्मविद्यां सर्वविद्यामित्युपक्रमे, भाष्यप्रकाशः । तु प्रथममुण्डकसमाप्तिस्थम् । ननु पञ्चशिखवचसौ पुंलिङ्गस्याक्षरपदस्य पुरुषपर्यायेषु पाठात्पुंसकत्व- मनादृत्य पूर्वत्रापि पुरुष एव ग्राह्यः । तथा सति पुरुषविशेषणानि कुतो न सांख्यपुरुषविशेषणा- नीत्यत आहुः न हि दिव्येत्यादि । साक्षित्वकैवल्यमाध्यस्थ्यद्रष्टृत्वाकर्तृत्वातिरिक्तधर्मान- ङ्गीकारात् तथेत्यर्थः । ननु बहुषु कश्चित् तादृशोऽप्यस्तु, को दोष इत्यत आहुः न हि तन्मत इत्यादि । तथा च नानापुरुषाङ्गीकारेऽपि सर्वेषां तुल्यत्वमेव तन्मते, न तु नियम्यनियामकभावा- दिनोत्कर्षापकर्षावतस्तथाङ्गीकारस्तन्मतभङ्ग इत्यर्थः । ननु दिव्यत्वं दिवि भवत्वमलौकिकत्वं वा । तदुभयमपि व्यापकत्वप्राकृतगुणवैलक्षण्याभ्यामुपपद्यते । एकत्वं च जात्यपेक्षया । शेषास्त्व- मूर्तत्वादयः सिद्धान्ते न तुल्या इति कथं ते तत्र नेत्यत आहुः नचेत्यादि । किंचैकत्वस्य जातिप्रयुक्तत्वे सर्वेषां तौल्याद्, दिव्यो ह्यमूर्त इति मन्त्रानन्तरमग्रोक्ता सृष्टिरपि सर्वेभ्यः स्यादिति सापि सांख्ये तथानङ्गीकाराद् विभिद्यते । तथा महदादिक्रमेण तत्र सृष्टिर्न तु प्राणादि- रश्मिः । तस्मादक्षरस्य पुरुषात्मकत्वात् अक्षरविशेषणानि न गुणत्रयसाम्यावस्थारूपायाः प्रकृतेः विशेष- णत्वेन प्रकारेण विशेषणानीत्यर्थः । पूर्वत्रेति अक्षरमधिगम्यत इत्यत्राक्षरपदेन पुंलिङ्गेनापीत्यर्थः । तथा सति पुरुषत्वेनाक्षरे गृहीते सति । प्रथममुण्डके पुरुषविशेषणानीत्यादिः । साक्षि- त्वेति तथाच सूत्राणि कापिलसांख्यप्रवचनसूत्रेषु तु 'असङ्गोऽयं पुरुषः' इति 'न नित्यशुद्धबुद्ध- मुक्तस्वभावस्य तद्योगस्तद्योगादृते' 'निर्गुणादिश्रुतिविरोधश्चेतीति' इति । तथेति नहि दिव्यत्वादयो धर्माः पुरुषस्य भवन्तीति भाष्योक्तः प्रकारः । तथेति एकत्वेन पुरुषाङ्गीकारः सांख्यमतभङ्गकः । एकत्वमिति पुरुष इत्यत्रैकत्वम् । ते तत्रेति पुरुषधर्माः सांख्यपुरुषेषु । आहुरिति तेषु सत्स्वपि बाह्यमध्याभ्यन्तररूपपुरुषधर्मस्य विरहमाहुः । भाष्ये । तस्य सांख्यपुरुषस्य स बाह्याभ्यन्तरो ह्यजः इत्यसां 'पुरुष एवेदं विश्वम्' इति श्रुत्युक्तं मध्यस्थत्वं ग्राह्यमपि सर्वत्वेति हेत्वनुरोधात् । मध्य- स्थत्वमन्तरा सर्वत्वानुपपत्तेः । प्रकृतेः सर्वत्वं न पुरुषस्य 'प्रकृतेराद्योपादानतामन्येषां कार्यत्वश्रुतेः' इति सांख्यसूत्रात् । सृष्टिरिति । 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति श्रुत्युक्तप्राणादि- सृष्टिः । तथानङ्गीति 'अनुपभोगेऽपि पुमर्थं सृष्टिः प्रधानस्योष्ट्रकुंकुमवहनवत्' इति सांख्यसूत्रे पुंसामर्थ- मित्यपि वक्तुं शक्यत्वेपि सर्वेभ्यः पुरुषेभ्यः सृष्टिर्न 'प्रधानाज्जगज्जायत' इति सूत्रात् । अतस्तथा- सर्वपुरुषत्वप्रकारेणानङ्गीकारात् सांख्यमताद्विभिद्यते पुरुषादक्षराच्च सृष्टिर्ब्रह्मवादे भिद्यते विशे- षेण तु क्षत्र प्राणादिसृष्टिरिति विभिद्यते कारणभेदे भेदः, कार्यकारणयोर्भेदे विभेदः । नहीति भाष्यं विवरामासुः तथा महदिति । तत्रेति सांख्ये । सृष्टिरिति 'प्रकृतेर्महान् महतोऽहंकारात् पञ्च- तन्मात्राण्युभयमिन्द्रियं स्थूलभूतानि पुरुष इति पञ्चविंशतिगुणाः' इति सूत्रोक्ता सा । नचेति प्राणा- 568