अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 66, कुल 2600 में से
संदर्भ में पढ़ेंस्वीकर्तव्येति चेन्न । ब्रह्म प्रतिबिम्बो जीव इति पक्षस्तु सर्वथा न यौक्तिकः। प्रतिबिम्बवाद- स्वीकारे ब्रह्मणि दृष्टत्वापत्तिः, जीवस्य प्रतिबिम्बत्वे च बिम्बप्रतिबिम्बयोरेकत्र स्थितिर्न भवतीति, श्रुतौ तयोः जीवब्रह्मणोः “समानं वृक्षं परिषस्वजाते” इति वाक्येन एकत्र स्थितिप्रतिपादनाच्छ्रुतिव्याकोपः अतः जीवस्तु ब्रह्मणोंश एव। यतोऽत्र श्रुतीनामेव प्रामाण्यं ग्राह्यम्। न तु लौकिकयुक्तीनाम् । उक्तञ्चाचार्यैः — अलौकिको हि वेदार्थो न युक्त्या प्रतिपद्यते । तपसा वेद युक्त्या तु प्रसादात् परमात्मनः ।। (अणु भा०का०१।२) अत्र हि वेदार्थस्यालौकिकत्वात्तस्य युक्त्या न प्रतिपत्तिः। कथं तर्हि प्रतिपत्तिरिति प्रश्ने—वेद्युक्त्या, न्यग्रोधफलमाहरेत्यादिरूपया वेदोक्तयुक्त्या प्रतिपत्तव्यमिति । अत्र आचार्याः “नहि स्वबुद्ध्या वेदार्थं परिकल्प्य तदर्थ विचारः कर्तुं शक्यः ब्रह्म पुनर्यादृशं वेदान्तेष्ववगतं तादृशमेव मन्तव्यम् । अणुमात्रान्यथाकल्पनेऽपि दोषः स्यात्”। अतः विस्फुलिङ्गन्यायेन जडजीवानां निर्गमनम्। जडनिर्गमने चिदानन्दांशयोस्तिरोभावः। जीवनिर्गमने आनन्दांशतिरोभावः। एवं सच्चिदात्मकं उभयं ब्रह्माभिन्नं ब्रह्मरूपञ्च । अत एक विज्ञानेन सर्वविज्ञानमिति श्रुतिप्रतिज्ञा । नन्वेवमंशभूतस्य जीवस्य दुःखमशिनः ब्रह्मणोऽपि स्यादिति चेन्न । “अनश्नन्नन्यो अभिचाकशीति” “एकस्तथा सर्वभूतान्तरात्मा, न लिप्यते लोकदुःखेन बाह्यः” “न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा” इत्यादि श्रुतिस्मृतिप्रमाणैर्ब्रह्मणो निर्लेपत्वमुद्घोष्यते यतः सूर्यप्रकाशस्थघटपटादिवस्तुनो दोषेण यथा सूर्य प्रकाशो न दुष्यते तथैव जीवस्थ दुःखादि दोषैरंश ब्रह्मापि न लिप्यते । अतः जीवब्रह्मसम्बन्धविचारे ब्रह्मणोंऽश एव जीव इति निर्णीयते । कुतः “अंशो नानाव्यपदेशात्” इति सूत्रात्—अत्र विद्वन्मण्डने प्रभुचरणाः आज्ञापयन्ति, “नानाव्यपदेशाद्, नानाविधो यो व्यपदेशः। क्वचिद्ब्रह्मत्वेन क्वचिदुत्पन्नत्वेन, क्वचिदङ्गत्वेन, क्वचिच्चिद्रूपत्वेन, क्वचिदीशीतव्यत्वेन, अणुत्वेन च व्यापकत्वेन च, निरूपणादेकस्यैव विरुद्धधर्माश्रयत्वं ब्रह्मातिरिक्तस्य न सम्भवतीति ब्रह्मांश एव जीव इत्यर्थः। अथवा नाना व्यपदेशाद्भेदेन व्यपदेशात्तथेत्यर्थः” तात्पर्यं जीवस्य ब्रह्मोपाधिकत्वमौपचारिकमंशत्वमङ्गीकृत्य प्रतिबिम्बत्वेन अलीकत्वं न कल्पनीयम् । ब्रह्म वेदेकसमधिगम्यम् अतः यथा तत्र निरूपितं तथैव मन्तव्यम् “नैषातर्केण मतिरापनेया” “अलौकिकास्तु ये भावा न तास्तर्केण योजयेत्” इत्यादि श्रुतेः स्मृतेश्च । ब्रह्म पूर्णप्रकटानन्दम् जीवस्तु तिरोहितानन्दः। यदा भगवत्कृपया इच्छया च जीवे भगवान् आनन्दांशमाविर्भावयति तदोभयोर्जीवब्रह्मणोरभेदः। अत्र जहदजहल्लक्षणादि- कानामावश्यकता नास्ति “सर्वे वेदायत्पदमामनन्ति” इति श्रुतेः सर्वेवेदा ब्रह्मणोऽनवगाह्य- माहात्म्यमेव बोधयितुं प्रवृत्ताः। यदा जीवः तिरोहितानन्दः तदा तत्र ब्रह्मत्वं नास्ति “अधिकं तु भेद निर्देशादिति” (२।१।२२) सूत्रात् । अत्र भाष्यम् “तु शब्दः पक्षं व्यावर्तयति । यदि ब्रह्म तावन्मात्रं भवेत् तदायं दोषः। तत् पुनर्जीवाज्जगतश्चाधिकम्। कुतः ?। भेदनिर्देशात्”। liii