अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 679, कुल 2600 में से
संदर्भ में पढ़ें५८८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ८ सू० २५ स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥ व्याख्यानेन भगवत्परत्वाद् वाक्यस्य प्रमाणान्तरमाह । 'केचित् स्वदेहे हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् । चतुर्भुजं कञ्जरथाङ्गशङ्खगदाधरं धारणया स्मरन्ति' ॥ इति । स्मर्यमाणं रूपमनुमानं स्यात् । प्रादेशमात्रवैश्वानरस्य ब्रह्मत्वे स्मरणं हि मननं श्रुतस्य भवति । श्रुतिवाक्येभ्य एव हि श्रवणम् । यदि प्रादेशमात्र- वैश्वानरप्रतिपादकजातीयानां न ब्रह्मवाक्यत्वं स्यात् तदा स्मरणं नोपपद्येत । अत इति हेतोः प्रादेशमात्रवैश्वानरो भगवानवेति सिद्धम् ॥ २५ ॥ भाष्यप्रकाशः । प्रत्यगात्मत्वेन विमीयमानस्य विषयत्वेनाब्रह्मत्वस्य भामत्यां स्वीकारात् । व्याख्येयग्रन्थेऽपि को न आत्मा, किं ब्रह्मेत्येतयोर्भिन्नवाक्यत्वपक्ष एकवाक्यत्वपक्षे च प्रत्यगात्मब्रह्माभेदमाना- भावस्योपपादितत्वाच्च । तस्माद् विरुद्धधर्माधारत्वादिकमत्राविवादम् ॥ २४ ॥ स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥ ननु पूर्वसूत्रोक्तहेतुना सिद्धे वैश्वानरस्य परमात्मत्वे किमिति सूत्रान्तरारम्भ इत्याकाङ्क्षायामाहुः व्याख्यानेनेत्यादि । तथाच स्वारस्येन तथाप्रतीत्यभावादाग्रहवादित्वमाशङ्क्येतेति तन्निवारणायारम्भ इत्यर्थः । स्मर्यमाणं स्फुटीकुर्वन्ति केचिदित्यादि । स्मर्यमाणस्य कथमनुमानत्वमित्यत आहुः स्मरणं हीत्यादि । स्मरणं नोपपद्येतेति ये हि ब्रह्म स्मरन्ति ते श्रुतितः श्रुतैव स्मरन्त्यतस्तत्राभावे तन्नोपपद्येत । तथाच प्रादेशमात्रत्वस्मरणं प्रादेशमात्रत्वस्य श्रुत्यर्थत्वानुमापकमित्यर्थः । तेन । 'अनन्तशाखासापेक्षे वैदिकार्थस्य निर्णये । स्वबुद्धिकल्पितार्थाद् बलीयानुपबृंहितः' ॥ इति बोधितम् । अन्ये तु, रश्मिः । एतदुपगमः । स्वयमिति शांकरैः । अभिन्ननिमित्तोपादानतोपगमे । प्रत्यगिति प्रत्यगात्मब्रह्मणोर्भें- दमानस्याभावस्तस्य । अविवादमिति । विशेषतस्तु विद्वन्मण्डने भक्तिमार्तण्डे च प्रतपादीति ततोऽवधेयम् ॥ २४ ॥ स्मर्यमाणमनुमानं स्यात् ॥ २५ ॥ स्वारस्येनेति इदमुक्तं सिद्धान्तहेतोः प्राशस्त्य- विचारे तथा वैश्वानरस्य परमात्मत्वेन । प्रतीत्यभावस्तु वैश्वानरः परमात्मा साधारणशब्दविशे- षात् विरुद्धधर्माधारत्वात् । अभिन्ननिमित्तोपादानभूतजगदाश्रयब्रह्मवत् स एव न परमात्मा तत एव हेतोः पृथिवीवदिति हेतोः विरुद्धत्वात् । यथा शब्दो नित्यः कृतकत्वात् । साध्याभावव्याप्तो हेतुर्विरुद्ध इति । श्रुत्यर्थेति श्रुत्यर्थत्वस्यानुमापयतीति कर्तरि ण्वुल् । अनुमापकं अनुमितिविष- यत्वकर्तृ प्रादेशमात्रत्वं श्रुत्यर्थः । प्रादेशमात्रत्वस्मरणात् केचित्स्वदेहे हृदयावकाशे इति स्मृताविव । अनन्तेति तेन शाखान्तरीयजाबालसमाम्नायेन प्रादेशमात्रत्वं विवक्षितमिति सूचितम् । वैदि- कार्यस्येति विषयवाक्यार्थस्य । उपबृंहित इति उक्तस्मृत्युपबृंहितः । अन्य इति शंकराचार्य- 588