अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 68, कुल 2600 में से
संदर्भ में पढ़ें।। अविकृतपरिणामवादः ।। श्रीमदाचार्यचरणैर्हि साकारब्रह्मवादः प्रामुख्येन स्वसिद्धान्तत्वेन संस्थापितः। प्रस्थानतः प्रमेयतः साधनतः फलतः सर्वशास्त्रतश्च ब्रह्मातिरिक्तपदार्थाभावात् सर्वसमन्वयो ब्रह्मण्येवेति सिद्धान्तः। तच्च कनकम्मृत्कामधेनुचिन्तामणिकल्पवृक्षादिरिव स्वयमविकृतमेव स्थितं सत् जगद्रूपेण परिणमतेति सिद्धान्तः। यथा कनकं कटककुण्डलादिपरिणामदशायां कनकत्वान्न विक्रियते तथैव ब्रह्मापि जगद्रूपेण परिणामेप्यविकृतम्। अयमेव श्रुतिस्मृतिसूत्र- श्रीभागवतप्रतिपादितः अविकृतपरिणामवादः। एकमेवाविकृतं कारणं नानाकार्यरूपं भवति । तेनैव एकविज्ञानेन सर्वं विज्ञानं भवति । एक विज्ञानेन सर्वविज्ञानरूपवेदान्तानां प्रतिज्ञा तदैव सफला भवति यदा शुद्धब्रह्म एव जगत्कारणं (निमित्त समवायिकारणं) भवेत्। अयं वादः वैदिक इति राद्धान्तः। अतः अविकृतपरिणामवादसाधकानि वचांसि अधुना किंचित् प्रदर्श्यन्ते । श्रुतिषु "एकं सद्विप्रा बहुधा वदन्ति" "असद्वा इदमग्र आसीत्ततो वै सदजायत" (आभ्याम् श्रुतिभ्याम् जगदव्यक्तं व्यक्तमभूदित्युक्तम्भवति) "ब्रह्म विश्वमिदं जगद्" "तमेव भान्तमनुभान्ति सर्वं तस्य भासा सर्वमिदं विभाति" सर्वकामः सर्वगन्धः सर्वरसः सर्वकर्त्ता सर्वभोक्ता य स सर्वविद्" "परास्य शक्तिर्विविधैवश्रूयते स्वाभाविकी ज्ञानबलक्रिया च" (आभिः श्रुतिभिः सर्वकर्तृत्वादीनां स्वाभाविकधर्मत्वं उक्तम्) "अणोरणीयान्महतो महीयान्" (अनया श्रुत्या ब्रह्मणो विरुद्धधर्माश्रयत्वं बोध्यते) "एकमेवा द्वितीयं ब्रह्म, एकोऽहं बहुस्यां प्रजायेय, स एकाकी न रमते स द्वितीयमैच्छत्", "स हैतावानास" (आभिः श्रुतिभिः अविकृतपरिणामवादो बोध्यते) "एतदात्म्यमिदं सर्वम् तत्सत्यं स आत्मा तत्त्वमसि" "एष ह्येवानन्दयति" "एकोदेवो सर्वभूतेषु गूढः" (आभिः श्रुतिभिः सर्वान्तर्यामित्वम्) "सर्वं खल्विदं ब्रह्म" "कथमसतः सज्जायेत" 'तत्सत्यमित्याचक्षते" इत्यादीनि । स्मृतिषु = "अहं सर्वस्यजगतः प्रभवः प्रलयस्तथा" मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्" "अहं बीजप्रदः पिता" "वासुदेवः सर्वमिति" इत्यादीनि । सूत्राणि = "जन्माद्यस्य यतः शास्त्रयोनित्वात्" (१।१।२) तत्तु समन्वयात् (१।१।३) आत्मकृतेः परिणामात् (१।४।२६) योनिश्च हि गीयते (१।४।२३) तदनन्यत्वमारम्भणशब्दादिभ्यः (२।१।१४) सर्वधर्मोपपत्तेश्च (२।१।३७) प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः (३।२।२२) प्रकाशाश्रयवद्वा तेजस्त्वात् (३।२।२८) इत्यादीनि । श्रीभागवते = "जन्माद्यस्य यतोन्वयादितरतः०" "त्वय्यग्र आसीत्०" "क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते०" "विश्वस्य कर्त्ता भुवनस्य गोप्ता०" इत्यादीनि । इदमत्रावधेयम् = अन्यैः आचार्यशङ्करप्रभृतिभिराचार्यैः स्वस्वसिद्धान्तसाधने प्रमाणत्वेन प्रस्थानत्रयी स्वीकृता उपनिषद्, भगवद्गीता व्याससूत्राणि च । किन्त्वस्माकमाचार्यैः प्रमाणत्वेन प्रस्थानचतुष्टयम् स्वीकृतम् तच्च — iv