अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 694, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ६०३
धर्मो यत्र स्वाभिव्यक्तिस्तत्र विरुद्धसर्वधर्माश्रयत्वमिति चकारार्थः। तस्मात् प्रादेशमात्रो व्यापक इति वैश्वानरो भगवानवेति सिद्धम् ॥ ३२ ॥ इति प्रथमाध्याये द्वितीयपादं अष्टमं वैश्वानराधिकरणम् ॥ ८ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये प्रथमस्याध्यायस्य द्वितीयः पादः ॥ १ ॥ २ ॥
भाष्यप्रकाशः। कर्तृत्वानंतरमवमाशङ्कय तन्निरासाय साकारब्रह्मता विचारिता। श्रुतौ तु वरणा भ्रूः। अस्य स्थानमित्यस्येति पदेनानन्तः परामृश्यते। घ्राणपदेन च नासिका। नासिके उपदिशन्नित्यत्र पृथग्वर्त्मात्मनः कथनात्। द्यौरित्याकाशः। तत्र हेतुः। लोकस्य परस्य च संधिरिति। जीवलोकस्य परब्रह्मणश्च संधानजनकत्वादिति। अथात्र मतान्तराणि विचार्यन्ते। तत्र जाठराग्निप्रतीकस्य जाठराग्न्युपाधिकस्य वा परमेश्वरस्योपास्यत्वं व्यासमते। जैमिनिमते तु तदुभयकल्पनं विनैव साक्षात् परमेश्वरोपासनं विधीयत इति साक्षादपीति सूत्रे व्याख्यायामामिव्यक्त्यादिसूत्रेषु प्रादेशमात्रत्वसाविरोधो विचार्यत इति शंकराचार्याः प्राहुः। तत्रेदमवधेयम्। आचार्यस्तद्गुरुः सर्ववेदव्यासकर्ता स्वयं समन्वय प्रतिज्ञाय सरलां सुन्दरीं जैमिनिविचारितां युक्तिं श्रुत्यादिसंमतां जानानः किमिति नोपगतवान्। अथ दुष्टां तर्हि कुतो न दूषितवानिति।
रश्मिः। कतमंस्थानियादित्यग्रिमप्रश्ने याज्ञवल्क्योत्तरं स इति याज्ञवल्क्यो ब्रूते स्म। वरणायामिति। वरणाथे- माहुः वरणा भूरिति पदे निर्वक्ति सर्वाणीति। तयां च नियम्यजीवद्वारा नियन्तृरीश्वरसान्निध्यान- त्वात् नासाभ्रुवोः पापनाशकत्वमित्युक्तम्। तत्रापि स्थानविशेषजिज्ञासया पृच्छति कतमदिति। अत्र प्रमाणमाहुः नासिके इति। पृथगिति प्राणः पृथग्वर्त्मात्मेति श्रुतेः प्राणः पृथग्वर्त्मात्मा शांकरभाष्ये तु प्राणस्थाने घ्राणः। पूर्वोक्तमध्यशब्दार्यं स्पष्टयति स्म भ्रुवोरिति तदेव स्थानमित्यर्थः। संधियुंलोकस्य यद्वा द्यौराकाशः संधानेति। ब्रह्ममृतवर्षिण्यां तु द्यौर्लोकस्य स्वर्गस्य परस्य ब्रह्मलो- कस्य च संधित्वेन ध्येय इत्युक्तम्। अथ ननु कोशे अग्निवैश्वानरो वह्निरिति तट्टीकायां च विश्वे नरा अस्य 'नरे संज्ञायाम्' इति विश्वशब्दस्य दीर्घः। विश्वानरस्यानपं ऋष्यण्। गीतायां च अहं वैश्वानरो भूत्वेति श्रुतिस्मृतिभिः वैश्वानर इति एतत्पर्यालोचनाविरोधेन शंकराचार्यादिमतानि प्रवृत्तानि। अतस्तत्तन्मतसिद्धार्थकानि सूत्राणीत्याशङ्कयाहुः अथात्रेति। जाठराग्नीति। जाठराग्निरोश्वरप्रती- कोऽवयव इवावयवस्तस्य। परमेश्वरदृष्टिर्हि जाठरे वैश्वानरे इहोपदिश्यते इति भाष्यात्। अषीति ईश्वरोपलव्धिस्थानेषु हृदयादिषु विशेषेणामिव्यज्यत इत्येवमविरोधः। बादरिभते प्रादेशमात्रत्वेन ज्ञेयं प्रादेशमात्रोऽप्यनुस्मरणीयः प्रादेशमात्रश्रुत्यर्थवत्ताया इत्येवमविरोधः संपत्तिकृतां जैमिनिर्मन्यत इत्यविरोधः। तद्गुरुरिति शंकराचार्यगुरुः। दुष्टामिति जानानो नोपगतवानिति पूर्वेणान्वयः। दूषि- तवानिति यतो न दूषितवानतः साक्षात्सूत्रार्थो व्यासाभिमत एव। अन्यसूत्रोक्तोपाधिस्तु सर्वथा न संभवति। विद्वन्मण्डने निपुणतरदूषणात्। तथा वैश्वरस जाठरस वा वक्तव्यः सः। सर्वे वेदा-