अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 707, कुल 2600 में से
संदर्भ में पढ़ें६१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० १ सू० २ योजनीयमिति । किंच । वाग्विमोक एव, न वस्तुविमोकः । वस्तुनो ब्रह्मत्वात् । वाचारम्भणमात्रत्वाद्विकारस्य । अतो न सर्वविज्ञानबाधः । अतो बाधकाभावा- दिदं ब्रह्मवाक्यमेव । ये तु श्रुतेरन्यथार्थत्वं कल्पितमतानुसारेण नयन्ति, ते पूर्वोत्तरस्पष्टश्रुतिविरुद्धार्थवादिन उपेक्ष्याः ॥ २ ॥ भाष्यप्रकाशः । मुपक्रमविरोधायेत्यर्थः । एवमन्यवाग्विमोकस्य दोषत्वं प्रकरणेन निवारितम् । अतः परम्परै- नाऽपि निवारयन्ति किंचेत्यादि । अर्थस्तु स्फुट एव । एवं सूत्रार्थं व्याख्यायैकदेशिमतमनूद्य दूषयन्ति ये त्वित्यादि । ये मायावादिनः परब्रह्मणः साकारताममन्वानाः श्रुतेर्व्याख्येयाया यस्मिन् द्यौरित्यस्या अन्यथार्थत्वं, सन्मूलाः सौम्येमाः प्रजाः सदायतनाः सत्