भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 709, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 709

मये' इत्यादि । तस्मात् प्रकृतिपुरुषनिरूपकसांख्यानुमापकमेवैतत्प्रकरणमस्तु । निर्णीतमप्यक्षराधिकरणे जडधर्मात् पुनरुज्जीवनम् । तस्माद् द्युभ्वाद्यायतनं प्रकृ- तिरेव भवितुमर्हतीति चेन्न । अनुमानं तन्मतानुमापकं न भवति । कोऽपि शब्दो निःसंदिग्धस्तन्मतव्यापको नास्ति । ब्रह्मवादव्यापकास्तु बहवः सन्त्यात्मसर्व-

भाष्यप्रकाशः । 'यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा संप्रतिष्ठितः' ॥ इत्यत्र पुरमिव पुरमिति पुरपदबोधितो दृष्टान्तो भूमिष्ठमहिमवत्त्वं शरीरधर्मः । तथा, 'मनोमयः प्राणशरीरनेता' इत्यत्र मनोमयत्वं विकारधर्मः । इत्यादीत्यादिपदेन, 'हिरण्मये परे कोशे' इत्यादिमन्त्रोक्तानां शुभ्रत्वप्रकाशाभावादीनां संग्रहः । आत्मसर्वज्ञादिशब्दाश्चेतनधर्म- बोधकाः पुरुषनिरूपकाः । तस्मादिति