अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 717, कुल 2600 में से
संदर्भ में पढ़ें६२४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० २ सू० ८ भूमा संप्रसादादध्युपदेशात् ॥ ८ ॥ (१।३।२) इदं श्रूयते । 'यो वै भूमा तत् सुखम्' इति । सुखलक्षणमुक्त्वा भूम्नो लक्ष- णमाह । 'यत्र नान्यत् पश्यति नान्यच्छृणोति । नान्यद्विजानाति स भूमा' इति । तत्र संशयः । भूमा बाहुल्यमाहोस्वित् ब्रह्मेति । तत्र प्रपाठकारम्भे, ततस्त ऊर्ध्वं वक्ष्यामीति प्रतिज्ञातत्वाद् वेदादीनां नामत्वमुक्त्वा ततो भूयस्त्वं वागादीनां प्राणपर्यन्तानामुक्त्वा मुख्यप्राणविद्याया अवरब्रह्मविद्यात्वख्याप- नायार्धप्रपाठकं समाप्य ततोऽपि विज्ञानादीनामन्तरङ्गाणां सुखान्तानां भूय- स्त्वमुक्त्वा सुखस्य फलत्वात् तस्यैव भूयस्त्वं वदति । यद्यपि, तरति शोकमा- भाष्यप्रकाशः । भूमा संप्रसादादध्युपदेशात् ॥ ८ ॥ विषयवाक्यमुपन्यस्यन्ति इदं श्रूयत इत्यादि । श्रूयत इति छ