अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 72, कुल 2600 में से
संदर्भ में पढ़ेंपालयतीति गोपालः, मुक्तिं ददातीति मुकुन्दः इत्यादिः। तथा हि नामकरणसमये लीलानाम्भावित्वाल्लीलानुसारिनामकरणमसम्भवमिति न शङ्क्यम्, भगवल्लीलायाः नित्यत्वान्नित्यप्रवर्त्तमानत्वाच्चेति । एवं पूतनाशकटभञ्जनकालियदमनादिलीलानां पूर्वमेव सिद्धत्वादपि भगवदिच्छयाऽनाविर्भावः। अतः भगवल्लीलानां नित्यसिद्धत्वात्कालाद्यनवच्छिन्न- त्वात्सर्वत्रैकत्र च सर्वरूपेण भिन्नभिन्नरूपेण च यथा तथा भगवदिच्छयैव स्थितत्वान्न कदापि मायिकत्वमिति । ननु भवतु नाम अलौकिकीनां भगवल्लीलानामायिकत्वं किन्तु लोकवल्लीलानां तु मायिकत्वं भवति न वेति प्रश्ने सर्वथा तदपि नेत्युत्तरम् । "तत्त्वभावे सन्ध्यवदुपपत्तेः" (ब्र.सू. ४।४।१३) इति सूत्रन्यायेन भगवानासुर्व्यामोहनार्थं स्वस्य प्राकृतत्वं प्रदर्शयति न तु तथा भवति । तत्र दूषितदृष्टीनामासुराणां कृते, यथा—श्रीमद्भगवद्गीतायाम्—"मामात्म- परदेहेषु प्रद्विषन्तोऽभ्यसूयकाः" (१६।१८) इत्यत आरभ्य "ततो यान्त्यधमां गतिम्" (१६।२०) इत्यन्तमुक्तम् । एतेषामासुरत्वेन मुक्त्यनधिकारादिति । एवं भगवल्लीलायां दोषदर्शने उपपत्तिमुक्त्वा अग्रिम सूत्रेण गुणदर्शने उपपत्तिमाह "भावे जाग्रद्वत्" (ब्र.सू. ४।४।१४) इति सूत्रन्यायेन लौकिकवद्भासमाने भगवल्लीलापदार्थे लीलायाञ्च भक्तानां यद्दर्शनं तत्त्वलौकिकत्वेनैव। यथा मोहनिवृत्तस्य पुरुषस्य सत एवार्थस्य दर्शनम् । एवं भगवान् स्वेच्छयैव भक्तानां मायापसारणेन तत्तद्रसानुभवार्थं तत्तल्लीलां तथा तथा करोति । तथा च कुत्रचित् मोहलीलामपि करोति यथा सौभयुद्धे। तथा चासुराणां व्यामोहनार्थं लोकवल्लीलां करोतीति । अत्र भाष्ये = "अत एव लीलाया अनेकरूपत्वाद् ब्रह्मणश्च श्रुतौ सैन्धवदृष्टान्तेनैकरसत्वनिरूपणाच्छुद्धब्रह्मधर्मत्वं न सम्भवतीति शङ्कानिरासाय ("लोकवत्तु लीला कैवल्यम्") कैवल्यमित्युक्तम् । साक्षी चेता केवलो निर्गुणश्चेत्यादिश्रुतिषु याऽन्यधर्मराहित्यलक्षणा केवलतोक्ता सा लीलात्मिकैव लीलावशिष्टमेव शुद्धं परं ब्रह्म, न कदाचित् तद्रहितमित्यर्थः पर्यवस्यति । तेन स्वरूपात्मकत्वं लीलायाः पर्यवस्यति । तेन च नित्यत्वम् ।" (ब्र.सू. ४।४।१४ भाष्ये) एवं यथा पृथिव्यामेव गन्धरूपेणाविर्भावः न जलादौ । एवमेवाविर्भावतिरोभावाभ्यां भगवल्लीलायाः अनुभवः अननुभवश्च भक्तानामभक्तानाञ्च कृते भवतः। अधुनाऽपि क्वचिद् क्वचिद् भगवदिच्छया कृपया च तादृशे भक्ते परोक्षलीलानामनुभवः श्रूयते । एवं भगवांस्तु नित्यलीलाविशिष्ट एव सर्वदा सर्वत्र विराजते । श्रीगोवर्धनधरः भक्तमनोरथपूरणार्थमिच्छया कृपया चाविर्भवति तिरोभवति च। तस्माल्लीलायाः कदापि मायिकत्वं सर्वथा नेति सिद्धान्तः। "प्रभोरेव फलत्वं निर्दोषत्वञ्च वर्ण्यते । लीलानित्यवतः पूर्णगुणत्वं च ततोऽखिलम् ।।" (इत्याचार्यकारिका) lix