अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 727, कुल 2600 में से
संदर्भ में पढ़ेंकिमक्षरशब्देन पदार्थान्तरं, ब्रह्म वेति । तत्राचेतनसाधारण्याद् बाणतुल्यत्वा- दाकाशवदस्याप्यब्रह्मत्वमेव । द्युभ्वाद्यायतनविरोधस्तु तुल्यः । अत एवागतार्थता अदृश्यत्वाद्यधिकरणेन । न हि तत्र विरुद्धधर्मा आशङ्क्य निराक्रियन्ते । अतो- ऽचेतनतुल्यत्वाद् ब्रह्मवादस्यासमाप्तत्वादाग्रहाविष्टत्वात् पृच्छुः स्त्रीत्वाच्च, 'क्षरो पुनरपि गार्गी पप्रच्छ । 'यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं च' इति । तत्र आकाश इत्युत्तरे, पुनराकाशविषयके ओतप्रोतत्वप्रश्ने, एतद्वै तदक्षरं गार्गीत्याद्युत्तरम् । सोऽत्र विषयः । तत्रा- क्षरशब्दे संशयः । किं पदार्थान्तरं ब्रह्म वेति । अत्र पदार्थान्तरपदेन जडजीवयोर्ग्रहणम् । तत्र ओतप्रोतत्वं विकारित्वापादकतया जडलिङ्गम् । 'अमृताक्षरं हरः, क्षरात्मानावीशते देव एकः' इति श्रुत्यन्तरे अक्षरपदं जीवबोधकतया प्रसिद्धं जीवलिङ्गं प्रशासनं च ब्रह्मलिङ्गमिति त्रिष्वपि बीजम् । पूर्वपक्षमाहुः तत्राचेतनेत्यादि । ओतप्रोततया विकारित्वेनाचेतनसाधारण्यात् । 'अहं त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वां द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम्' इति द्वयोः प्रश्नयोः क्लेशजनकत्या प्रथमप्रश्नोत्तरभूताकाशवदस्य द्वितीयप्रश्नोत्तरभूतस्याक्षरस्याप्यब्रह्मत्वमेव । किंच । यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतमित्यत्र यथोतत्वं पदार्थभेदेन भारवाहकत्वमवगमयत्येवमत्र प्रोतत्वमपि, 'मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव' इति स्मार्तदृष्टान्ताद् भारवाहकत्वमेव गमयि- ष्यतीति द्युभ्वाद्यायतनत्वेन विरोधोऽपि तुल्यः, तत्रेवात्रापि समानः । किंचादृश्यत्वाद्यधिकरणे मध्ये यत् प्रसिद्धे द्यावापृथिवी द्यावापृथिवी इमे । अत्र प्रथमकोटौ वर्णो निवेश्यते शांकरैस्तदनिवेशे हेतुमाहुः अत्र पदेति । जडजीवयोरित्यत्र 'अभ्यर्हितं पूर्वम्' इति सूत्राप्राप्तिर्वेदान्त उभयोरभ्यर्हित- त्वात् 'ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' इति श्रुतावुभयोरेदात्मनस्त्व च भावत्वात् । ईषत इति ईष दानगतिवधेष्विति गच्छतीत्यर्थः । भ्वादिर आत्मनेपदी सेट् । प्रसिद्धमिति न प्रसिद्धिरुपरोद्धुं शक्येति न्यायेन नामृताक्षरमिति हरविशेषणम् । प्रशासनमिति 'एतस्य वाक्षरस्य प्रशासने गार्गि द्यावापृथिवी विधृते तिष्ठतः' इति श्रुतेः । त्रिष्विति ब्रह्मजीवजड- ग्रहणेपु । बाणेत्यादिभाष्यं विवरामासुः अहमित्यादिना । श्रुत्यर्थस्तु अहं गार्गि त्वा त्वां याज्ञवल्क्य काशिषु भवः काश्यः शूरत्वेन प्रसिद्धः विदेहो विदेहानां राजा उग्रपुत्र इति षष्ठीतत्पुरुषः । 'उज्यमवतारितेज्याकं धनुरधिज्यमारोपितेज्याकं कृत्वा द्वौ बाणवन्तौ बाणः शराग्रे संधीयमानो वंशखण्डः तद्वन्तौ शरौ यद्वा बाणावन्तौ बाणौ मनोहरौ । तौ च सपत्नातिव्याधिनौ शत्रुभेदिनौ उपोत्तिष्ठेत् शत्रुसमीपे तिष्ठेत् तद्वदहं गार्गी त्वां याज्ञवल्क्यं उपोदस्थां त्वत्समीपे स्थितवत्यस्मीति । इदमित्थतयाऽविषयं आविर्भवतीति क्लेशः । प्रथमेति यदूर्ध्वमित्यादिनोक्तप्रथमप्रश्नस्तदुत्तरमाकाशे ओतं प्रोतं चेति । द्वितीयेति कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति द्वितीयप्रश्नस्तदुत्तरति 'एतद्वै तदक्षरं गार्गि' इति । तथा चैवमेवाहं त्वां द्वाभ्यां प्रश्नाभ्यामुपोदस्थामित्युक्त्या बाणतुल्यत्वमिति भाष्यार्थः । द्युभ्वादीति भाष्यं विवरामासुः किं चेति । तत्रेवात्रेति आकाश इवाक्षरेपीत्यर्थः । अत एवेति भाष्यं