अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 733, कुल 2600 में से
संदर्भ में पढ़ें६४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १० भाष्यप्रकाशः। तदभावं च बोधयन्तौ विरुद्धधर्माश्रयत्वं वस्तुपरिच्छेदरहित्यं च तस्य समर्थयतः । अतो न तदश्नोतीत्यादिना ब्रह्मापेक्षयाधिकस्य ब्रह्मापेक्षयान्यस्य च निराकरणेन, द्युभ्वाद्यायतनाधिकरणे सिद्धस्य तत्स्वरूपत्मकतया तद्धारकत्वस्य हेतोर्मुख्यतया मूर्धविपाताभावाय परिगृहीतत्वात् । न च श्रोतृदोषाद्वक्तव्यत्वम् । तस्यास्तथात्वेऽपि ब्रह्मवित्त्वेनाधिकारिकत्वात् । पूर्वमतिप्रश्ने ब्रह्मज्ञत्वा- भावसंभावनया मूर्धविपातस्योक्तत्वेन गार्ग्या अब्रह्मवित्त्वे उक्तप्रभ्रान्त्यामूर्धविपतनं च भवेत् । तच्च न जातमतस्तस्या अधिकारित्वेन तां प्रत्युपदेशो नायुक्त इति सर्वाधारत्वेनात्र ब्रह्मैवोपदिष्यते । न ह्यन्यो निरङ्कुशः सर्वाधारो भवितुमर्हतीत्युक्तत्वात् । नन्वेवं सति ब्रह्मपदस्य कुतो नोक्तिरिति शङ्क्यम् । परोक्षेण कथनार्थमक्षरपदात् । तत्रापि गमकं न तदश्नोति कश्चनेत्यादिना ब्रह्मधर्मो- पदेशः । अत एव ब्रह्मवादस्यापि न समाप्तिः । तस्माद् बाधकानामभावात् साधकानां सत्त्वाच्चाक्षरं परमात्मैवेत्यर्थः । रश्मिः। व्याप्नोति इत्यसंगतमत आहुः विरुद्धेति । तथा च व्यापकविरुद्धो धर्म एषोऽव्यापकत्वं यः न कमपि पदार्थं व्याप्नोतीति वस्तुमयः परिच्छेदस्य राहित्यम् । न च वृद्धिह्रासभाक्त्वमित्यादिसूत्र- विरोध इति शङ्क्यम् । 'यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति' इति षष्ठस्कन्धात् । ब्रह्मापेति विकरणव्यत्यये सर्वेषां ब्रह्मापेक्षयाऽल्पत्वेनातिमहतो भोगाभावे आधिक्यं निराकरोति पदव्यत्यये विरुद्धधर्माधारत्वान्न ततोधिकः कश्चन । द्वितीयनिषेधपक्षमाहुः ब्रह्मेति । विकरणव्यत्यये तद्ब्रह्म कंचनान्यं नाश्नाति ब्रह्मातिरिक्ताभावादित्येवमन्यन्निराकरोति पदव्यत्यये कंचनान्यं न व्याप्नोति ब्रह्माति- रिक्ताभावात् इत्येवमन्यं निराकरोति । मूर्धेति । ब्रह्मात्मकत्वेन ज्ञानेऽव्ययैकमावेक्षणाद् ब्रह्मज्ञत्वे पुष्टिरपि भवतीति मूर्धपातकस्य ब्रह्मत्वेपि वारणम् । न च मारेत्यादिपाठस्तदा तु श्रुतिं व्याख्याये- त्यारभ्य परमात्मैवेत्यन्तस्य भाष्यस्यार्थमाहुः अयमर्थ इति । तथा निश्चयेति अत्रैक एवेत्यादि भाष्यीयस्य विधारकत्वेन निश्चयात् । श्रुतिं व्याख्याय सिद्धं हेतुमाहेति भाष्ये का श्रुतिः किं तस्या व्याख्यानं क सिद्धो हेतुस्तमाहेत्याकाङ्क्षायां द्युभ्वादीत्यारभ्यार्हतीत्यन्तं भाष्यं तद्विवरामासुः न च भारेति । अत्र न तदश्नोति तस्या व्याख्यानं चाहुः । अत्र न तदश्नोतीत्यारभ्य समर्थयत इत्यन्तेन ग्रन्थेन । क सिद्धो हेतुरित्याशङ्क्य न तदिति भाष्यस्य व्याकृतत्वेन द्युभ्वादीति भाष्यविवरणमाहुः अतो नेति श्रुतेर्व्याख्यातत्वादित्यत इत्यर्थः । प्रष्टुः स्त्रीत्वादिति पूर्वपक्षग्रन्थमपाकुर्वन्ति स्म न चेति । श्रोतुः स्त्रीत्वरूपाद्दोषात् । अन्यथेति भाष्यं विवरांचक्रुः पूर्वमिति । प्रथमगार्गीब्राह्मणे ब्रह्मज्ञत्वा- भावसंभावनया मूर्धविपातस्योक्तत्वेनेति 'कस्मिन्नु ब्रह्मलोका ओताश्च प्रोताश्च' इति प्रश्नेनाब्रह्मज्ञत्व- संभावनया मातिप्राक्षी माते मूर्धा व्यपतदित्यनेनोक्तत्वेन न हि ब्रह्मज्ञा एवं पृच्छेत् ब्रह्मलोकपर्यन्तं ब्रह्म । आनन्दमीमांसायां 'ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः' इति ब्रह्मलोकादुत्तरं ब्रह्माभावात् । उक्तेति द्वितीयगार्गीब्राह्मणोक्तप्रश्नात् । उपदिष्यत इति । तेन भाष्यस्यान्यथा- पदस्यात्र ब्रह्मोपदेशाभाव इत्यर्थो ज्ञापितः ब्राह्मणज्ञाया प्रश्नः कुतो गार्ग्या अतो मूर्धविपाताभाव इति टीकायामुपनिषद्व्याख्याताह । हेतुमुखेन ह्यन्य इति भाष्यं विवृण्वन्ति स्म न ह्यन्य इति । जीवो वा जडो वा नहि इत्याचार्यैर्भाष्य उक्तत्वात् । परोक्षेणेत्यादिभाष्यमवतारयांबभूवुः नन्वेवमित्यादि । परोक्षेणेति अक्ष्णः परमिति विग्रहात् सर्वमप्यध्यात्ममाधिदैविकं च परोक्षं तेन रूपेण ब्रह्मकथनार्थम् । 'परोक्षवादो वेदो यम्' इत्याग्निहोत्रेण 'परोक्षं च मम प्रियम्' इत्यत एवोक्तं भगवतापि । अन्येति भाष्यं 640