अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 735, कुल 2600 में से
संदर्भ में पढ़ें६४२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० ३ सू० ११ सा च प्रशासनात् ॥ ११ ॥ ननु कचिद्वाक्ये विधारणं ब्रह्मधर्मत्वेनाश्रितमित्यन्यत्रापि न तथाभवितुं शक्यते । नियामकाभावादित्यत आह । सा च विधृतिरत्रापि वाक्ये ब्रह्मधर्म एव । कुतः । प्रशासनात् । 'एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिवी भाष्यप्रकाशः । देवप्रभृतीनां कर्माधिकारस्याग्रे साध्यत्वात् तेषां लोकान्तरेऽपि करणसामर्थ्यसत्त्वेन तद्धारणा- र्थत्वात् सिद्धान्तोक्तरीत्या सुखेन प्रधानवारणसंभवेन गत्यन्तरस्य सत्त्वादिति । अतो वृथाऽयं प्रयास इति ज्ञेयम् । अत्रैवं प्रयोगः सिध्यति । अस्थूलादिवाक्योक्तमक्षरं परमात्मैव । इतरा- भोग्यत्व इतराभोक्तृत्वे च सत्यम्बरान्तधारकत्वात् । यन्नैवं तन्नैवमिति । अभोक्तेर्व्याप्तिर्घटकत्वे तु विरुद्धध