अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 739, कुल 2600 में से
संदर्भ में पढ़ें६४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० ४ सू० १३ भाष्यप्रकाशः। कथं फलभेद इत्याकाङ्क्षायां भावनाप्रकारभेदस्तत्र नियामकत्वं बोधयितुमेकद्वित्रि- रश्मिः। रूपेणैवायतनेनोपास्तिसाधनेन परापरयोरेकतरमित्यर्थः । भावनेति उपासनाप्रकारभेदः । उपासना मनोव्यापारः । एकेति यथा एकतरमन्वेतीत्यस्या अग्रे स यद्येकमात्रमभिध्यायीतेति श्रुतैका- मात्राऽकाररूपैकमात्रा एकमात्र मनसि विद्यते यस्योपासकस्य स एकमात्रः । नपुंसकत्वं छान्दसम् । न चैकमात्रमित्येवमभिध्यानकर्मेति शङ्क्यम् । मनसि संपन्नस्य ध्यानकर्मत्वात् । द्विमात्रेण मनसि संपद्यत इति वक्ष्यमाणत्वेनौङ्कारस्य करणत्वेन कर्मत्वाभावात् । न च संपत्तिकरणत्वेप्यभिध्यान- कर्मत्वमिति शङ्क्यम् । परं पुरुषमभिध्यायीतेति परपुरुषस्याभिध्यानकर्मत्वात् । एकमात्र अभिध्यायीते- त्यपि पाठः वर्णविकारो वाऽकारस्य मकार इति । अयं सिद्धान्ते पूर्वपक्षे त्वेकमात्रमोंकारमित्येवार्थः । अस्य शरीरं ब्रह्मविद्योपनिषदि । 'ऋग्वेदो गार्हपत्यः पृथिवी ब्रह्म एव च । अकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः' ॥ इति । शरीरमप्युपास्यम् । स यदीत्यस्या अग्रे स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसंपद्यते तमृचो मनुष्यलोकमपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवतीति । तेनाकारेण तूर्णं शीघ्रं मनुष्यलोकं जगत्वन्तर्गतं स द्विजाग्र्यः महिमानं विभूतिं सिद्धान्ते महिमानं शिवं महिमानमीशमिति श्रुतेः । महिमपदात्सर्वात्मभावोपि तादृशश्चेत् तृतीयाध्याये महिमपदस्य सर्वात्मभावे शक्त्युक्तेः । एवमेकमात्रोपासनया मनुष्यलोको व्याकृतः । अथ द्विमात्रोपासनया चन्द्रलोकप्राप्तिस्ततः पुनरावृत्तिश्चोच्यते तथा हि अथ यदि द्विमात्रेण मनसि संपद्यते सोन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकं स सोमलोकविभूतिमनुभूय पुनरावर्तत इति । अस्यार्थः । यदि पुनर्द्विमात्रविभागज्ञो द्विमात्रेण विशिष्टमोंकारमभिध्यायेत् सैकमात्रके मनसि यजुर्मये सोमदेवत्ये संपद्यते एकाग्रतयात्मभावं गच्छति स एवं संपन्नो मृतोऽन्तरिक्षमन्तरिक्षाधारं द्वितीयमात्रानुरूपं द्वितीयमात्रारूपैरेव यजुर्भिरुन्नीयते सोमलोकं तत्र सोमलोके विभूतिमनुभूय मनुष्यलोकं प्रति पुनरावर्तते सिद्धान्ते सोन्तरिक्षं द्विमात्रेणो- न्नीयते विभूतिं न तु परपुरुषमतः पुनरावर्तते इत्यर्थः । अत्र ब्रह्मविद्योपनिषत् । 'यजुर्वेदोन्तरिक्षं च दक्षिणाग्निस्तथैव च । विष्णुश्च भगवान् देव उकारः परिकीर्तितः' ॥ इति । इति सोमलोकप्राप्तिस्ततः पुनरागमनम् । अथ त्रिमात्रोपासनया लोकप्राप्तिरुच्यते पुनरागतिश्च यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सामभिरुन्नीयते सूर्यलोकं स सूर्यलोके विभूतिमनुभूय पुनरावर्तते । इत्यनया परं पुरुषं प्रतीकान्तर्गतं प्रतीकेनाभिध्यायीत स तेजसि तृतीयमात्रारूपे तेजसि संपन्नो भवति सिद्धान्तेप्ययमर्थः । एवं ब्रह्मोपनिषत् । 'सामवेदस्तथा द्यौश्चाहवनीयस्तथैव च । ईश्वरः परमो देवो मकारः परिकीर्तितः' ॥ इति । एवं जायस्व म्रियस्वेति तृतीयमार्ग निरूप्येत्यर्थः । अथैवचतुर्थेति यः पुनरेवं चतुर्थमात्रेणोमित्ये- तेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि परे संपन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्तः सोथर्वभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते 646