अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 74, कुल 2600 में से
संदर्भ में पढ़ेंनान्यत्पश्यतीत्यादिनाऽन्यदर्शनादिराहित्यस्योक्तत्वाद्भगवद्विरहावस्थायां प्रपञ्चविस्मृतिपूर्विका या परमाऽऽसक्तिस्तया विगाढभावेन सर्वत्र भगवत्स्वरूपमेव स्फुरतीति स एवोच्यते “स एवाधस्तात्स एवोपरिष्टात्सपश्चादित्यादि" तदनन्तरं भगवद्विरहभावगतस्फूर्तिरूपाणां ज्ञानानां व्यभिचारिभावत्वेनानियतत्वं ज्ञापयितुमहंकारादेशः “अहमेवाधस्तादहमेवोपरिष्टादित्यादिः” तत आत्मादेशः इति । “आत्मैवाधस्तादात्मोपरिष्टादित्यादिः”। तथा चाग्रे आत्मरत्यादि पदैः “आत्मरतिः आत्मक्रीड आत्ममिथुन” इत्यादिभिः रसरूपं भगवन्तं भक्तो भजति । अत्रात्मशब्देन सिद्धान्ते पूर्णपुरुषोत्तम एवोच्यते। नत्वक्षरं जीवो वेति । “गौणश्चेन्नात्मशब्दादिति” सूत्रन्यायेन परमकाष्ठापन्नं यद्वस्तु तदेव सर्वत्र वेदान्तेषु मुख्यतया प्रतिपाद्यम् । अनेन परब्रह्मणि सर्वात्मभावरूपा व्यसनात्मिका भक्तिः सैव मुख्या । सा च भगवदनुग्रहैकसाध्या । तच्चोक्तम् श्रुतौ — “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनुं स्वाम्” ।। (का. १।२।२३) अत्र आत्मशब्दः पुरुषोत्तमवाचकः, प्रवचनेन नाम सस्वरवेदाध्ययनेनेति । अनेन पुष्टिभक्तेः केवलं भगवद्वरणलभ्यत्वमेव । अत्र स्वपदस्यात्मीयवाचकत्वेन स्वीयत्वेन वरणे सर्वात्मभावरूपा पुष्टिभक्तिः प्रयच्छति । भाष्ये च “निसर्गतः सर्वेषां जीवानां भगवान् भवत्येव प्रभुर्यद्यपि तथापि यं स्वीयत्वेन वृणुते तस्य विवाहितः पतिरिव भर्त्ता सन् वरणस्नेहातिशयेन भक्तेनापि ध्रियमाणः सन्, स भक्त इव स्वयमपि तं स्वस्मिन् बिभर्ति”। (अ.भा. ४।४।१५) इत्यनेन भक्तौ स्नेहस्यप्राधान्यादयोगोलकादि दृष्टान्तं विहाय प्रदीप दृष्टान्त- मुक्तवान् व्यासः “प्रदीपवदावेशस्तथा हि दर्शयति” (४।४।१५) । स स्नेहस्तु व्रजसीमन्तिनीनां रतिस्थायिभावत्वेन मुख्यत्वाच्छ्रंगार एव भक्तिरसः इति वक्तुं शक्यते । स चालौकिक एव । तस्य च संयोगविप्रयोगात्मकत्वम् । अलौकिक शृंगारस्य लौकिकसदृशत्वेऽपि न लौकिकत्व- मलौकिकप्रमाणप्राप्तत्वाल्लौकिकप्रमाणाप्राप्तत्वाच्च । वस्तुतस्तु अत्र लौकिकत्वशङ्का निरर्थका इति । वात्स्यायनादिऋषिभिरपि भगवद्भावभावनार्थमेव शास्त्रप्रणयनम् । न तु ऋषीणां कदापि लौकिके तात्पर्यं भवति। अत एवोक्तम्—“तदेतद् ब्रह्मचर्येण परमेण समाधिना विहितो लोकयात्रार्थं न रागार्थोऽस्य संविधिः, रक्षन् धर्मार्थकामांस्त्रीन् सम्पश्यंल्लोकवर्तिनाम्। अस्य शास्त्रस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः”। इति लौकिके तापर्ये सति शास्त्रकारः जितेन्द्रियभवनरूपफलं न वदेत् । अर्थोयम् लिङ्गभूयस्त्वाधिकरणे, ऋतुवज्ज्यायस्त्वाधिकरणे च विस्तरेण प्रपञ्चितमाचार्यैर्भाष्ये, श्रीपुरुषोत्तमचरणैः प्रकाशे श्रीगोपेशचरणैश्च रश्मौ । ननु भक्तेः शृंगाररसरूपत्वात् शृंगारस्य च संयोगविप्रयोगात्मकत्वाद्विप्रयोगस्य विरहात्मकत्वेन lxi