अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 750, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् ६५७ अयमेव जीवो ब्रह्म । अयमात्मा ब्रह्मेति श्रुतेः । मैत्रेयीब्राह्मणं चानुगुणं भवि- ष्यति । तस्य पुरं शरीरम् । तत्र हृदयकमलं सूक्ष्मम् । तत्राराग्रमात्रो जीव एवाकाशः । तात्स्थ्यात् तद्व्यपदेश इति । अन्वेष्टव्यस्तु तस्मिन् विद्यमानस्तन्महिमा । वासनारूपेण सर्वं तत्र वर्तत इति । अन्यथोभयत्र सर्वकथनं विरुद्धमापद्येत । भूतानि महाभूतानि पुत्रा- भाष्यप्रकाशः । पुत्राणां कामायेत्याद्युक्तानां जीवलिङ्गानां बाहुल्येन तस्यापि जीवपरत्वात् । नचैतन्मात्रमेवा- र्थानुगुण्यं, किं त्वन्यदपि । तदेव भाष्ये तस्य पुरं शरीरमित्यादिना व्याख्यातम् । सूक्ष्म- मिति हार्दाकाशरूपम् 'तस्यान्ते सुषिर ५ सूक्ष्मम्' इति श्रुत्यन्तरात् । मैत्रेयीब्राह्मणादत्रैतावान् विशेषः । तत्र श्रोतव्यत्वादिक