अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 757, कुल 2600 में से
संदर्भ में पढ़ेंवति तु इदानीमेव तेषामनुभवः । ध्यानादावुपलब्धेः । पृथिवीशराववदेव जीव- ब्रह्मविभागो न त्वज्ञानकृतः । तथाहि । अज्ञानं नाम चैतन्यान्तर्भूतं तच्छक्ति- रूपमनादि । उत बहिर्भूतम् । सांख्यवत् । न । बहिर्भूतं चेत् । सांख्यनिराकरणेनैव निराकृतम् । अन्तःस्थितायाः शक्तिरूपायाः स्वरूपाविरोधिन्या न स्वरूपविभेद- कत्वम् । आश्रयनाशप्रसङ्गात् । कल्पनायाश्चाप्रामाणिकत्वात् । बहिःस्थितस्यैव हि भेदकत्वम् । कुठारादिवत् । नापि वायुवत् । तच्छक्तित्वात् । किंच । कोऽयं ब्रह्मवादे
भाष्यप्रकाशः। पक्षेः । अतो घट्टकुटीप्रभातन्यायापातात् किं तन्मतदूषणप्रयासेनेत्यत आहुः । पृथिवीत्यादि । तथाच, बहु स्यामित्यादीच्छया कृत इति विभागवत्तयैवाविभागोऽपि पृथिवीशरावदृष्टान्तादेव सिद्ध्यतीति न दोष इत्यर्थः । ननु विभागस्याज्ञानकृतत्वेऽप्येतत्तुल्यमित्याकाङ्क्षायां तद् दूषयि- तुमज्ञानं विकल्पयन्ति तथाहीत्यादि । द्वितीयपक्षदूषणं स्फुटम् । प्रथमं दूषयन्ति अन्तरि- त्यादि । अयमर्थः । यदि सा स्वरूपाविरोधिनी तदा स्वरूपभूताञ्जीवान् न व्याप्नुयात् । अथ स्वरूपविरोधिनी तदा जीवानिव परमात्मानमपि व्याप्य जीवमिव तं कुर्यात् । तथा सति तस्या आश्रयनाशप्रसङ्गाद् ब्रह्मशक्तित्वमपि भज्येत । यदि च तस्यास्त्रिगुणात्मकत्वमुपगम्य शुद्धसत्त्वे- नेश्वरोपाधित्वं, मिश्रसत्त्वेन जीवोपाधित्वमित्येवं स्वरूपाविरोधविरोधाभ्यां विभेदकत्वं कल्प्येत तदा श्रुत्याद्यनुक्तत्वेन तस्याः कल्पनाया एवाप्रामाणिकत्वादसंगतमेव विभेदकत्वम् । यतो लोके शास्त्रे च बहिःस्थितस्यैव भेदकत्वं कुठारादिवत् । ननु 'नासिके निरभिद्येतां दोध्रुवति नभस्वति' इत्यत्रान्तःस्थस्यापि वायोर्भेदकत्वं दृष्टमिति चेत् तत्राहुः नापीत्यादि । तथाच वायो- रन्तःसत्त्वेऽपि ब्रह्माण्डशक्तित्वाभावादेतस्यास्तु ब्रह्मशक्तित्वाद् दृष्टान्तवैषम्येणायं पक्षोऽप्य-
रश्मिः। रित्वापातेनानित्यत्वं घटादिदृष्टान्तेन तसापत्तेः । घट्टकुटीति अयं न्यायोत्रैवाग्रे द्वितीयाध्यायोपान्ते ज्ञानप्रक्रियायामस्ति । यथा सोयकृतो घट्टकुट्या निर्गतस्य तत्रैव प्रभातं तथा जीवब्रह्मवादनिर्णयार्थं प्रवृत्तस्याज्ञानकृतजीवब्रह्मवाद एव पर्यवसितिः । न त्वैच्छिको जीवब्रह्मविभागः सर्वस्य ब्रह्मात्मकत्वेन विभागास्याज्ञानकृतत्वात् । इत्यादीति आदिपदेन 'प्रजायेय' इति पदम् । एकसंब- न्धिज्ञानस्यापरसंबन्धिसारकत्वेनाहुस्तथैवेति । 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' इति गीतात्रयोदशाध्याये विभक्तप्रत्ययासाधारणं कारणं विभक्तत्वमिवाविभक्तप्रत्ययासाधारणं कारण- विभक्तत्वं स्मृतम् । पृथिवीत्वेन पृथिवीशरावावविभक्ताविति प्रत्ययवत् भगवदिच्छया ब्रह्मजीवयो- र्ब्रह्मत्वेनाविभागः ब्रह्मजीवौ ब्रह्मत्वेनाविभक्ताविति प्रत्ययात् । एतदिति सर्वस्य ब्रह्मात्मकत्वम् । एवं तात्त्विकान्यथाभावे इवावास्त्विकान्यथाभावे ब्रह्मात्मकत्वं तुल्यमिति विवर्तेन विकल्प इत्यर्थः । तथाहीति इदमव्ययं निदर्शने । अत्र । भाष्ये । अनादीति यावदात्मभावीत्यर्थः । निरा- कृतमिति तुरीयपादे निराकृतं भविष्यति । तथातुस्यान्याय कल्पनाया इतिभाष्यं विवरीतुमाहुः यदी चेति । विरोधेति ईश्वरत्वस्य जीवत्वस्य च सहानवस्थानलक्षणविरोधः । संसारित्वदशायां मुक्तत्वदशायां जीवत्वाभावादविरोधः । कुठारादीत्यादिपदेन शास्त्रीयबहिर्यागादिः पञ्चरात्राद्युक्तः । हृदयग्रन्थिभेदनः । शास्त्रेपि कुठारादिरेव वा । भेदकत्वमिति घ्राणनासिकयोर्ब्रह्मजीवयोः । ब्रह्माडाशक्तीति तथा चाज्ञानं यदि ब्रह्म स्यात् तद्धर्मो भेदकत्वं वायो स्तादृशत्वेवमतोऽज्ञानसाम्ये-