अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 76, कुल 2600 में से
संदर्भ में पढ़ेंतच्चोक्तम् — "स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः विकर्म यच्चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः" ॥ (भा. ११/५/४२) "प्रविष्ट कर्णरन्ध्रेण स्वानां भावसरोरुहम् धुनोति शमलं कृष्ण पद्मपत्रमिवाम्भसा'' ॥ एवं वरणेनैव पुष्टिभक्तेः प्राप्तिः। पुष्टिभक्तेः वरणैक लभ्यत्वात्। एवं भक्तिमार्गेण भक्ताः भगवत्समीपं गच्छन्ति। तत्र भगवत्प्राकट्ये रसानन्दप्राप्तिः। सर्वैरिन्द्रियैर्भगवत्स्वरूपेण सह संयोगादिलाभः। अतएवोक्तम् भागवते "अक्षण्वतां फलमिदं न परं विदामः"। स च सर्वो मनोरथः भगवता पूर्यते। "ब्रह्मैव सन् ब्रह्माप्येति" "सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा" इत्यादि श्रुतेः। अयं रसानुभवः श्रेष्ठः। "ब्रह्मानन्दात्समुद्धृत्य भजनानन्दयोजने" इत्याचार्यवाक्यात् अक्षरब्रह्मानन्दस्य गणितानन्दत्वात् भजनानन्दस्य चागणितानन्द- त्वादिति। अनयोः ज्ञानभक्त्योः तारतम्ये भक्तिः श्रेष्ठा। (१) भक्तौ कृपानन्दरसपानं च फलम्। ज्ञाने दुःखाभावमात्रं फलम्। (२) भक्तौ पूर्णानन्दानुभवः फलम्। ज्ञाने स्वरूपेण प्रकर्षतो लयः फलम्। (३) भक्तौ भगवत्कृतद्वैतस्थित्यानन्दानुभवः फलम्। ज्ञाने भेदाभावस्थितेरानन्दानुभवो न संगच्छते। (४) भक्तौ प्रारम्भतः एव निरतिशयानन्दः। ज्ञाने प्रथमतः कष्टमन्ते गणितानन्दप्राप्तिश्च। (५) भक्तौ पूर्णपुरुषोत्तमप्राप्तिः। ज्ञाने अक्षरप्राप्तिः। एवं ज्ञानभक्त्योः तारतम्ये भक्तेः अतिशयितत्वमिति। आत्मारामाश्च मुनयः निर्ग्रन्था अप्युरुक्रमे। कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः॥ (भा. १/७/१०) अतः ब्रह्मभावादनन्तरमपि परा भक्तिरनुष्ठातुं शक्यते। इदमेव भगवतः पूर्णपुरुषोत्तमस्य श्रीकृष्णस्य अनवगाह्यमाहात्म्यम्। भक्तेरुत्कृष्टत्वञ्च। अत एव विद्वांसः रसज्ञाः भावुकाः भक्त्यैवात्मानं भगवते श्रीगोपीजनवल्लभाय समर्प्य रसानन्दनिमग्नाः भवन्ति। अतः "सर्वधर्मान्परित्यज्य" इति वाक्याद्भगवान्नेव शरणीकरणीयः। भगवान् स्वानुग्रहेणैव भक्तानां सर्वं साधयति। अत एवोक्तं श्रीभागवते—"पोषणं तदनुग्रहः" इति पुष्टेर्लक्षणम्। पुष्टिमार्गे भगवदनुग्रहस्यैव नियामकत्वम्। भक्तिः मर्यादापुष्टिभेदेन द्विधा भवति। मर्यादाभक्तिः भगवच्चरणारविन्दभक्तिः। पुष्टिभक्तिः भगवन्मुखारविन्दभक्तिः। मर्यादा भक्तिः अस्वतन्त्रा। पुष्टि भक्तिः स्वतन्त्रा। lxii