अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 765, कुल 2600 में से
संदर्भ में पढ़ें६७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० ५ सू० १८ अन्यनिषेधमुखेन पुनर्विचारयति ॥ इतरपरामर्शात् स इति चेन्नासंभवात् ॥ १८ ॥ ननु ब्रह्मैतादृशं जीवो नैतादृश इति न क्वचित् सिद्धमस्ति । श्रुत्येकसम- धिगम्यत्वादुभयस्वरूपस्य ब्रह्मवादे । अतो यथा सर्वत्र ब्रह्मणोऽसाधारणधर्म- दर्शनात् तत्तत्प्रकरणं ब्रह्मण इति निश्चीयते । एवमिहापि जीवस्यासाधारण- धर्मदर्शनाज्जीवप्रकरणमिति कुतो न निश्चीयते । निश्चिते तु तस्मिन्नाकाश- तुल्यत्वादयो धर्मा जीवस्यैव भविष्यन्ति नान्यस्येत्यभिप्राsynchronousायेणाह इतरपरा- मर्शात् सः । इतरो जीवस्तस्य परामर्शः । उपक्रमोपसंहारमध्यपरामर्शैः संदिग्धे निर्णयः । तत्रात्मविदः सर्वान् कामानुक्त्वा मध्ये, 'अथ य एष संप्र- सादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिन