अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 781, कुल 2600 में से
संदर्भ में पढ़ें१८८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० ६ सू० २२ अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥ ननु न वयं जीवे उपपत्तिरस्तीति जीवप्रकरणं कल्पयामः किंतु ब्रह्मणि नायमर्थ उपपद्यते । अल्पश्रुतेः । अल्पे हि पुण्डरीके कथं भगवदवस्थानम् । व्यापकत्वश्रवणात् । यावान् वाऽयमाकाश इति । तस्माद् विरोधपरिहाराय जीव एवाराग्रमात्रस्तथा भवत्विति कल्प्यत इति चेत्तर्हि भवान् सम्यग्विचारकोऽ- श्रदीय एव । परं तत्समाधानं पूर्वमेवोक्तं 'निचाय्यत्वादेवं व्योमवच्च' इत्यत्र । तन्न प्रस्मर्तव्यम् । विरोधस्तु सर्वभवनसमर्थे ब्रह्मणि नाशङ्कनीयः । तथा पुरु- षशरीरं च । 'पुरुषत्वे च मां धीराः सांख्ययोगविशारदाः । आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम्' ॥ इति भगवद्वाक्यात् । तस्माद् भगवान्नेव दहर इति सिद्धम् ॥ २१ ॥ इति प्रथमाध्याये तृतीयपादे पञ्चमं दहराधिकरणम् ॥ ५ ॥ अनुकृतेस्तस्य च ॥ २२ ॥ (१।३।६) दहरविरुद्धं वाक्यमाशङ्क्य परिहरति । 'न तत्र सूर्यो भाति, न चन्द्र- तारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा भाष्यप्रकाशः । अल्पश्रुतेरिति चेत् तदुक्तम् ॥ २१ ॥ तथा पुरुषशरीरं चेति । विजिघत्सोऽ- पिपास इत्यादिभिर्धर्मैः सूचितं पुरुषशरीरं च विरुद्धमिति नाशङ्कनीयमित्यर्थः । स्फुटमन्यत् । एवमत्र जीवब्रह्मवादनिराकरणेन जीवाधिको विरुद्धधर्माश्रयो भगवानिति साधितम् । तेन भक्तिमार्गीयोपासनायां तादृश एव साक्षाद्भवतीत्यपि सिद्ध्यति । अत्र च, यावान् वेति वाक्येन स्थितिकर्तृत्वं हार्दाकाशेऽतिव्याप्तमाशङ्क्य तन्निवारितमिति बुद्धिस्थानात्मिकैवाधि- करणसंगतिः ॥ २१ ॥ इति पञ्चमं दहराधिकरणम् ॥ ५ ॥ अनुकृतेस्तस्य च ॥ २२ ॥ उपोद्घातरूपमधिकरणसंगतिं बोधयितुमाहुः दहरेत्यादि । मुण्डककठवल्ल्योर्ब्रह्मप्रकरणत्वत्साहचर्यादधिकरणेषु साधितत्वात् तद्वाक्यस्य ब्रह्मपरत्वेन तद्विरुद्धं रश्मिः । अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥ भाष्ये । यावानिति 'तावानेष अन्तर्हृदय आकाशः' इति । तथेति तदन्तःस्त्वेन भवति । पूर्वमिति द्वितीयपादे । स्फुटमिति । पुरुषत्वे चेति वाक्यमेकादशस्कन्धस्थम् ॥ २१ ॥ इति पञ्चमाधिकरणम् ॥ ५ ॥ अनुकृतेस्तस्य च ॥२२॥ अदृश्येति आदिपदेनात्ता चराचराधिकरणम् । तद्विरुद्धमिति सूर्याद्यभानविरुद्धम् । तद्भानं तस्य कयरूपम् । 'यावान्वा अयमाकाशस्तावानेषोन्तर्हृदयाकाशः उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि 688